SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ मञ्जुला य: पद्माभ: स सुपार्श्व: (शोभनं पार्श्व यस्य स) इति सम्बन्धादायातस्य श्रीसुपार्श्वनाथस्य स्तुति: शस्यते । तततमिति । हे सुपार्श्व ! = भोः श्रीसुपार्श्वनाथस्वामिन् ! वयं त्वाम् उपास्महे = तवोपासनां कुर्महे उपपूर्वक ‘आस्'धातुः → आसिक् उपवेशने - [१११९] इति हैमधातुपाठः, इति क्रियाकारकसम्बन्धः, कीदृश भोः सुपार्श्व ! ? तत ! - त: = तत्त्वम् → तत्त्वकरुणासु धातुर्वादविधावपि त: स्याद् - [३०] इत्यजिरादिएकाक्षरीनाममालाऽज्ञातनिर्मिता, त: = अमृतम् → तश्चौरामृतपुच्छेषु - [१६१] इति मेदिनीकोशो मेदिनीकररचितः, स्यात् त एव तो यस्मात् स तत: = तत्त्वामृतदायक: तस्य सम्बोधने । ___ अत्र ‘उपास्महे' इति क्रियापदम्, के कर्तार: ? 'वयम्' अध्याहार्यपदमिदम्, कं कर्मतापन्नम् ? 'त्वाम्', किं सम्बोधनम् ‘सुपार्श्व', 'तत' सम्बोधनस्य विशेषणम्, अन्यानि ‘त्वाम्' इत्यस्य विशेषणानि । कीदृशं त्वाम् ? तततम् - ततम् = विस्तृतम् → ततम् - विस्तृते . [भा.-२,पृ.१०४७] इति शब्दार्थचिन्तामणि: सुखानन्दनाथनिर्मितः, तम् = पुण्यम् → तश्चौरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित् अपुमांस्तरणे पुण्ये कथितः शब्दवेदिभि: + [१३/१४] इति मेदिनीकोशो मेदिनीकरप्रणीतः, ततं तं यस्य स ततत: = विस्तृतपुण्य: अनन्तैश्वर्योपभोक्तृत्वात्, तम् । ____ अस्त्वर्हत: पुण्यशालित्वम् किञ्च तेनान्येषाम् ? यथा कोट्यधिपतितोऽपरेषां धनादिकं न स्यात्तदा वैयर्थ्यमेव तस्यार्थस्य प्रोच्यते च प्रजाभिर्लोभी [त:] श्रीसुपार्श्वनाथजिनस्तुति: ५५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy