________________
सद्धर्मप्ररुपकत्वात्, तम् ।
पुन: कीदृशम् ? जजम् - ज: = जन्म → जनने ज: प्रकीर्तित: - [8] इत्येकाक्षरकोशो महाक्षपणकनिर्मित:, ज: = छेदक: → जश्चारे छेदके - [१७] इति पूर्वोक्तपरमानन्दनन्दनवचनाद्, जस्य ज इति जज: = जन्मच्छेदक: स्वस्य पक्षे चरमभवित्वादन्येषां पक्षे च मुक्तिं गमयितृत्वात्, तम् ।
___पुन: कीदृशम् ? जजम् ज: = तपन: → जश्चारे छेदके रवौ - [१७] इत्येकाक्षरीप्रथमकाण्ड: परमानन्दनन्दननिर्मित:, ज: = तेज: → तेजस्यपि स्याज्ज: - [१४] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातकथिता, ज इव जो यस्य स जज: = तपनतेजा: देदीप्यमानत्वात्, तम् ।
पुन: कीदृशम् ? जजम् - ज: = अम्बुद: मेघ इत्यर्थः → जा स्त्रियां देहविदा (वा) हिनी योनौ समुद्रवेलायां पुनपुंसकमम्बुदे - [४९] इत्येकाक्षरशब्दमालाडमात्यमाधवकथिता, जम् = अपत्यम् आत्मज इत्यर्थ: → स्यादपत्ये जम् * [३७] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, जस्य = मेघराज्ञ: जम् = अपत्यम् इति जजम् = मेघनृपतेः सूनुः, तद् ।
पुन: कीदृशम् ? जम् - जम् = वरम् → जं तूक्तो वरशब्दे - [४९] इत्येकाक्षरशब्दमालाडमात्यमाधवविरचिता, पुरुषश्रेष्ठत्वात्, तद् ।
पुनः कीदृशम् ? जम् • जम् = निर्मलम् → जं वृत्ते निर्मलं प्रोक्तम् - [१७] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दननिर्मित:, पापपङ्केनामलिनत्वात्, तद् ।
जकारेण तृतीयायां तिथावुज्ज्वलफाल्गुने पद्मप्रभस्तुति: प्रोक्ता सरदारपुरा-पुरि
।.. ॥१॥
इति श्रीपद्मप्रभस्वामिस्तुति: ।। ८ ।।
★★★
[ज:] श्रीपद्मप्रभस्वामिस्तुति: