________________
[४३] इत्येकाक्षरशब्दमालाडमात्यमाधवरचिता, च: = मुखम् → चश्चञ्चुश्चारणोऽचिर्मूखो (?) मुखं रवि: 6 [३३] इत्येकाक्षरनाममाला सौभरिप्रणीता, च इव चो यस्य स चच: = विधुवदन: आह्लादोत्पादकत्वात्, तम् ।
पुन: कीदृशम् ? चचम् - चम् = शोभनम् → चकारं भद्रकालीयं रक्ताभं शोभनं भवेत् - [२१] इत्येकाक्षरनाममालाऽज्ञातनिर्मिता, च: = स्वर: → चस्तुरुष्के स्वरे - [२४] इति नानार्थरत्नमालेरुगपदण्डाधिनाथविरचिता, चञ्चो यस्य स चच: = सुन्दरस्वर: सुस्वरनामकर्मोदयात्, तम् ।
पुनः कीदृशम् ? चचम् - च: = दिव्यम् → दिव्ये केपये (?) पराभागे विप्रकनिष्ठाङ्गुल्यां भरहररेखासु च चकार: - [२१] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातकृता, चम् = सुखम् → चं चरित्रं सुखम् - [३६] इत्येकाक्षरनाममाला सौभरिकृता, चश्चं यस्मात् स चच: = दिव्यसुखराता स्वर्गसुखप्रदातृत्वाद्, तम् ।
पुन: कीदृशम् ? चम् - च: = विमल: → चं क्लीबे विमले त्रिषु . [२९] इत्येकाक्षरकाण्ड: कविराघवविरचितः, कर्मकलङ्कविशुद्धत्वात्, तम्, सन्ति बहवोऽत्रावनितले मोहतिमिरसमेताः परमोहध्वान्तदूरीकरणपरा: प्रदीपवन्न च श्रीसुमतिनाथजिनेश्वर एतादृशः, अतोऽन्यात्मनिर्मलीकरणं पूर्वं प्रोक्तमत्र तु स्वयमपि विमल एवेत्याशयः ।
पुन: कीदृशम् ? चम् + च: = विरस: रस: = राग: विगतो रसो यस्मात् स विरस: = वीतराग इत्यर्थः → विरसे स्याद् दिव्ये केपये (?) पराभागे विप्रकनिष्ठाङगुल्यां भरहररेखासु च चकार: + [२१] इत्यजिरादिएकाक्षरीनाममालाऽज्ञातप्रणीता, कैवल्योपलब्धेः, तम् ।
च पादपूरणे → चकार: पुनरव्यय: अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे + [१५] इत्येकाक्षरनाममाला श्रीसुधाकलशमुनिरचिता । स्तुत्वा पार्श्वमहिच्छत्रातीर्थे फाल्गुनपक्षतौ । ग्रथितेयं चकारेण श्रीसुमतीश्वरस्तुतिः ॥१॥
इति श्रीसुमतिनाथजिनस्तुति: ।। ७ ।।
[च:] श्रीसुमतिनाथजिनस्तुति:
४७