________________
मज्जुला
यः सर्वजनाभिनन्दनः स सुमति: ( शोभनमतिः) सर्वजीवनन्दनदाने शोभनमतेरपि परमकारणत्वादिति सम्बन्धेनायातस्य श्रीसुमतिनाथजिनस्य स्तुतिरुद्गीर्यते ।
चचचमिति ।
हे च ! - चः = भृत्यः चः स्याद् भृत्येन्दुतस्करे ← [C] इति नत्वादि- एकाक्षरीनाममालाऽज्ञातप्ररूपिता, तस्य सम्बोधने, त्वम् सुमतिम् = श्रीसुमतिनाथजिनम् स्तुहि = स्तवनविषयीकुरुष्व स्टुञ् स्तुतौ ← [ भा. १, पृ.९८-३४] इति माधवीयाधातुवृत्ति:, इति क्रियाकारकसण्टङ्कः ।
→
कीदृश हे च ! ? च ङ च: = चञ्चल: → चञ्चलश्च चकारः स्मृतो बुधैः ← [२४] इत्येकाक्षरीमातृकाकोशोऽज्ञातप्रोक्तः, तस्य सम्बोधने, स्वाभीप्सापूर्त्यर्थं सर्वत्राटाट्यते चाञ्चल्यादतस्तमाह यज्जिनस्यैव स्तवनादिकं कुरु नान्यस्येति ।
अत्र 'स्तुहि' इति क्रियापदम् कः कर्ता ? ' त्वम्' अध्याहृतमिदं पदम्, कं कर्मतापन्नम् ? ‘सुमतिम्', किं सम्बोधनम् ? ' च !', 'च' तु तस्य विशेषणम्, अन्यानि श्री सुमतीशस्य विशेषणानि ।
कीदृशं श्रीसुमतिनाथम् ? सुमतिम् = शोभना मतिः यस्य स सुमतिस्तम्।
पुनः कीदृशम् ? चचचम् चः = चन्द्रमा: → चन्द्र (मा:) चः समाख्यातः ← [८] इत्येकाक्षरकोषो महाक्षपणकप्रणीतः, चः = अर्चि: अंशुरित्यर्थः → चश्चञ्चुश्चारणोऽर्चिः ← [ ३३ ] इत्येकाक्षरनाममाला सौभरिविहिता, चम् = रुधिरम् → चा शोभायां स्त्रियामुक्ता रुधिरे चं नपुंसके ← [ ४३ ] इत्येकाक्षरशब्द
[चः] श्रीसुमतिनाथजिनस्तुतिः
४३