SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ = पुनः कीदृशम् ? घघघघम् घः = देव : → देवे घो मन्त्रेऽन्यार्थवाचक: ← [ २८ ] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, घः विशेषः → घस्तन्मात्रे निश्चयेऽपि परमार्थविशेषयोः ← [ १९९६ ] इति वाङ्मयार्णवः पण्डितरामावतारशर्मरचितः, घः = पराक्रमः घशब्दः पुंसि वै नागे पराक्रमनिदाघयोः ← [३९] इत्येकाक्षरशब्दमालाऽमात्यमाधवनिर्मिता, घानां घ इति घघः = देवाधिदेवः शतक्रतुरित्यर्थः घश्चासौ घश्चेति घघः = विशेषविक्रमः, घघाद् घघो यस्य स घघघघः = वास्तोष्पतिविशेषविक्रमः अनुत्तरपराक्रमत्वात् तदुक्तम् भगवतां क्षीणनि:शेषवीर्यान्तरायत्वात् सर्वामरनरेन्द्र निवहपराक्रमादनन्तगुणत्वादनुत्तर एव [ १०४९ ] इति विशेषावश्यकभाष्यवृत्ती, तम् । पुनः कीदृशम् ? घघम् ← घः = भूः पृथ्वीत्यर्थः → भूवार्ताघोरेषु घः ← [ ५१] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, घः = पूषा सूर्य इत्यर्थः घः सूनुर्वह्निः पूषा ← [२७] इति पूर्वोक्तसौ भरिवचनाद्, घे घ इवेति घघः = पृथ्वीपूषा अज्ञानान्धकारनिवारकत्वात्, तम् । पुनः कीदृशम् ? घम् ← घ: = शिवोत्तम: शिव: शङ्कर इत्यर्थस्तस्मादप्युत्तम इत्याशयः → खड्गी शिवोत्तमो मेधा दक्षिणाङ्गुलिमूलग:, घनो घनस्वरश्चैव घकारः ← [२२] इत्येकाक्षरीमातृकाकोशोऽज्ञातरचितः, विगतरागद्वेषत्वादधिकं लोकतत्त्वनिर्णयतो विज्ञेयम्, तम् । पुनः कीदृशम् ? घम् घः = पार्थिवः घः सूनुर्वह्निः पूषा नृपो गज: ← [२७] इत्येकाक्षरनाममाला सौभरि प्रणीता, विनीतानगर्या अधिपतित्वात्, तम्, पूर्वं पार्थिवपुत्रत्वेन परमेश्वरस्य प्रकुलत्वं प्रख्यातमधुना प्रजापतित्वेन निजौज इति । माघरामचतुर्दश्यां विहितेयं मया मुदा 1 शाहबादे घकारेण श्रीअभिनन्दनस्तुतिः ।। १।। इति श्रीअभिनन्दनस्वामिस्तुतिः ।। ६ ।। [घ] श्रीअभिनन्दनस्वामिस्तुति: ४१
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy