________________
पर्जन्यत्वेन पापशून्यत्वमाह ।
पुनः कीदृशम् ? घघघम् • घम् = पापम् → घं पापमुच्यते ← [३०] इति पूर्वोक्तसौभरिवचनाद्, घः = वह्निः घः सूनुर्वह्निः ← [२७] इत्येकाक्षरनाममाला सौभरिप्रणीता, घः = मेघ: घश्च मेघः समाख्यातः ← [१०] इत्यभिधानादि - एकाक्षरीनाममाला, घमेव घ इति घघस्तत्र घ इव यः स घघघः = पापपावकपर्जन्यः,
तम् ।
पुनः कीदृशम् ? घम् - घ: = शत्रुनाशक: → घकारं भैरवं विद्याद् रक्ताभं शत्रुनाशनम् ← [१९] इत्येकाक्षरनाममालाऽज्ञातविहिता, सर्वारिजेतृत्वात्, तम्, शत्रुश्चात्राभ्यन्तरबाह्यभावाभ्यामवसेयः कामक्रोधाद्याभ्यन्तरशत्रुः विद्वेषिमिथ्यादर्थ्यादिश्च बायशत्रुस्तयोश्च जेतेत्याशयः ।
पुनः कीदृशम् ? घघम् घः = पार्थिवः घः = सूनुः पुत्र इत्यर्थः → घः सूनुर्वह्निः पूषा नृपः ← [२७] इत्येकाक्षरनाममाला सौभरिप्रणीता, घस्य घ इति घघ: = पार्थिवपुत्रः संवरराज्ञः पुत्रत्वात्, तम् अथवा घम् = पुण्यम् घम् = प्रवाहः → पुण्ये प्रवाहे पाषण्डे घम् ← [२९] इति पूर्वोक्तविश्वशम्भुवचनाद्, स्याद् घस्य घो यस्माद् स घघः = पुण्यप्रवाहकारकः, तम्, स्वस्य पुण्यप्रकृष्टता तु पूर्वं प्रोक्ता, अत्र जिनेश्वरात् स्यादन्येषामपि पुण्यप्रकर्षतेत्याशयः ।
पुनः कीदृशम् ? घघम् घः = मेघः घो मेघश्च समाख्यातः [६] इत्येकाक्षरकोशो महाक्षपणककृतः, घम् = खः ध्वनिरित्यर्थः → घं च घोरे धुरो रवे ← [ २९ ] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, घवद् घं यस्य स घघः = धराधरध्वनिः गाम्भीर्यसमेतत्वात्, तम् ।
• →
पुनः कीदृशम् ? घघघम् घः = संवेग संवेगवाद्यभूमिश्च विशिखश्विगवेतस्याभोगीने (?) स्याच्च घः शब्दः ← [२०] इत्यजिरादि - एकाक्षरीनाममालाऽज्ञातकृता, घम् = अमृतम् →घं नादामृतयोर्भवेत् ← [४०] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, घः = कुम्भ: घो घने हनने रुद्रे घोषान्तर्भावकुम्भयोः ← [ ५० ] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, घ एव घमिति इति घघम् = : संवेगसुधा तस्य घ इव य: स घघघः = संवेगसुधाकलस:, तम् ।
[घ] श्रीअभिनन्दनस्वामिस्तुति: ३९