________________
श्रेष्ठशरण: समस्तदुःखार्तसत्त्वशरण इत्यर्थः → समत्तदुक्रवत्तसत्तसरणाणं . [२२] इति चतु:शरणप्रकीर्णकवचनात्, तम् ।
पुन: कीदृशम् ? गगम् + गम् = गलित: → गत्योरपि गा स्मृता गं नपुंसके गलिते [३६] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रणीता, ग: = प्रीत: अनुराग इत्यर्थ: → ग: प्रीतो भव: - [२३] इत्येकाक्षरनाममाला सौभरिरचिता, गं गो यस्य स गग: = रागरहित: निष्कषायत्वात्, तम् ।।
पुन: कीदृशम् ? गगम् + गम् = नाग: → गत्योरपि गा स्मृता गं नपुंसके गलिते नागे च परिकीर्तित: + [३५/३६] इत्येकाक्षरशब्दमालाडमात्यमाधवकृता, गम् = गमनम् → गं गमनगीतयो: - [२६] इत्येकाक्षरकाण्ड: कविराघवनिर्मित:, गवद् गं यस्य स गग: = नागगमन: शुभविहायोगतित्वात्, तम् ।
पुनः कीदृशम् ? गम् + गम् = शुभ: → गकारं तु गणेश: स्यात् पीताभं विघ्ननाशनं पूर्वापरस्थितिज्ञानं भूलोकविजयं शुभम् + [१८] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, विघ्नवारवारकत्वात्, तद् ।
___ पुन: कीदृशम् ? गम् + ग: = उत्तम: → ग: प्रीतो भव: श्रीपतिरुत्तमः * [२३] इति पूर्वोक्तसौभरिवचनाद्, पुरुषोत्तमत्वात्, तम् ।
।
॥१॥
माघमासि त्रयोदश्यां श्यामलायां प्रकीर्तिता स्तुति: फल्गुतिथौ क्षेमकारणा सुन्दरीकरा तृतीयतीर्थकारस्य श्रीशम्भवजिनेशितु: गकारेण बृहद्ग्रामे मुरादाबादनामके
।
॥२॥
इति श्रीशम्भवनाथजिनस्तुतिः ।। ५ ।।
[ग:] श्रीशम्भवनाथस्तुति: