________________
'सौम्यवदना'काव्यसर्जनमधुना च ततोऽपि क्लिष्टतरामेकाक्षरी रचनापद्धतिं स्वीकृत्य जिनराजरतोत्रं युष्मत्कृतं दृष्ट्वा वयं विस्मितचित्ता: सञ्जाता: । ग्रन्थस्याऽस्याऽवलोकने स्मृतिपथं समागता सूक्तिरियं यद् :
बाला अपि रवे: पादा:, पतन्त्युपरि भूभृताम् । तेजसा सह जातानां, वय: कुत्रोपयुज्यते ।
- चतुर्विंशतिजिनस्तुतिमयं स्तोत्रमिदं भक्तिभावमयमस्त्येव, परं काव्यचातुर्यमयं कल्पनाशिल्पमयं वैदुष्यमयमप्यस्ति । अन्यत्तु दूरे, 'राजहंसा'वृत्तिगतो द्वैतीयिक: श्लोकोऽपि कीदृश आहलादको यत्तत्र सप्ताऽपि विभक्तय: पकारप्रासाश्च विलसन्ति सर्वत्र ।
___ - साधुवादं दद्महे आशास्महे च यदस्मिन् ग्रन्थे समुदिता चतुर्विंशतिजिनस्तुतिः, परं भाविकाले सर्वेषामपि जिनानां स्तोत्रग्रन्थान् पृथक्पृथक्तया स्रष्टुं भवन्त: सामर्थ्यवन्त: स्युरिति ।
- पूज्या: श्रीसूर्योदयसूरीश्वराः - पूज्या: श्रीराजरत्नसूरीश्वराः
सम्प्राप्ता जिनराजस्तोत्रप्रति:,, प्रत्यवेक्ष्य संस्मृतं श्रीमहोपाध्यायवचनमिदम् - काव्यं दृष्ट्वा कवीनां हृतममृतमिति स्व:सदां पानशकी खेदं धत्ते तु मूर्जा मृदुतरहृदयः सज्जनो व्याधुतेन । ज्ञात्वा सर्वोपभोग्यं प्रसृमरमथ तत्कीर्तिपीयूषपूरं नित्यं रक्षापिधानानियतमतितरां मोदते च स्मितेन ।। इक्षुद्राक्षारसौघः कविजनवचनं दुर्जनस्याग्नियन्त्रानानार्थद्रव्ययोगात्समुपचितगुणो मद्यतां याति सद्यः । सन्तः पीत्वा यदुच्चैर्दधति हृदि मुदं घूर्णयन्त्यक्षियुग्मं स्वैरं हर्षप्रकर्षादपि च विदधते नृत्यगानप्रबन्धम् ॥ (अध्यात्मसारे २१/११, १३) स्पृहयामि सततं समाप्नुयां सुन्दराणि सौन्दराणि गुम्फनानीति
पूज्याः श्रीकल्याणबोधिसूरीश्वराः
જિનરાજ સ્તોત્રમ્’ પુસ્તક મળ્યું. પૂર્વ મહાપુરુષોની કૃતિને તમે વર્તમાનમાં જીવંત બનાવી. બેનમુન કૃતિ છે. તમારો આ જબરદસ્ત ક્ષયોપશમ અને શક્તિ ઉત્તરોત્તર શાસન સેવા કરનારી બને એ જ પરમાત્માને પ્રાર્થના....
५. Bा. श्री विमलसेन वि. म.
અભિપ્રાય
९७