________________
प्रशस्तिः
अथ वृत्तिप्रशस्तिः ।
सुसमाधिसुधासिन्धौ संमग्नाः स्तोत्रप्रेरका: । सम्मेतशिखरे तीर्थे जिनसद्मोपदेशकाः ॥ १ ॥
संप्राप्तकलिकुण्डेशपार्श्वप्रभुकृपामृताः ।
*सदाशिषं प्रयच्छन्तु श्रीमद्राजेन्द्रसूरयः || २ || युग्मम् ॥ तत्पादाम्भोजसंलीना: श्रीराजपुण्यसाधवः ।
विजयन्तां तपस्कारा गुरवो जनकाश्च मे ।। ३ । कृपासागर - राजेन्द्रसूरिपट्टप्रभावकाः ।
श्रीराजशेखराचार्या वर्षयन्तु सदा कृपाम् ।। ४॥
६ ० २
परमेष्ठिरसव्योमपन्मितेऽब्दे हि विक्रमात् ।
इदं स्तोत्रं चतुर्मास्यां सम्मेतशिखरे कृतम् ॥ ५॥ समारम्भ इदं भाद्रपदोज्ज्वलाष्टमीदिने । भाद्रपदस्य कृष्णायामष्टम्यामपृणां तथा ।। ६ ।। स्वीयसद्गुरुसद्वाचासुधाजं सुरसालवद् ।
अर्हत्स्तोत्रमिदं विद्भिर्वाच्यमानं जयेत् सदा ।। ७ ।। स्वोपज्ञेयं च तद्वृत्तिर्मनोरमा मनोरमा । सदा मुदे विदामस्त्वितीप्सति राजसुन्दरः ।। ८ ॥ इति वृत्तिप्रशस्तिः ।
ग्रन्थाग्रम् - ६४८.५
५
॥ इति स्वोपज्ञा मनोरमाभिधा वृत्तिः ॥
* सदा आशिषमित्यर्थः, अथवा सदाशिषम् - शुभाशिषमित्यप्यर्थः सत्त्वस्यैव तत्र सत्त्वात्
1
339
९१