SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अगोगोगौ: - गौ: = सत्यम् → गौर्जलं....सत्याक्षि- + [१३/१४] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनग्रथित:, गौ: = वस्त्रम् → करणवस्त्रयो..... गौः 6 [२५/२६] इत्येकाक्षरकाण्ड: कविराघवग्रथितः, गौः = वह्निः → गौर्जलं...रश्मिवढ्योश्च - [१३/१४] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनगुम्फितः, न गौरित्यगौरसत्यमित्यर्थः, अगौरेव गौरित्यगोगौस्तत्र गौरिव य: स अगोगोगौ: = असत्यवस्त्रवह्निः असत्योच्छेदक इत्यर्थः सर्वज्ञत्वात् सदा सत्यप्ररूपणाच्च । गो...गौश्चासावगोगोगौरिति गो...गौ: (८)। गोगोगौः - गौः = मद: → गौ के...मदे - [४८/४९] इत्येकाक्षरीनाममाला कालिदासव्यासप्रोक्ता, गौ: = गिरिः → गौर्जलं वजबाणयोः वृषधेन्वोर्गिरौ * [१३] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्ररूपित:, गौः = वज्रम् → गौः स्वर्गे वृषभे रश्मौ वजे - [४] इत्येकाक्षरीनाममाला महेश्वरप्रणीता, गौरेव गौरिति गोगौस्तत्र गौरिव य: स गोगोगौः = दर्पाद्रिदम्भोलि: निष्कषायत्वात्परमानविच्छेदकत्वाच्च । गो...गौश्चासौ गोगोगौरिति गो...गौ: (११) । गोगोगौः - गौ: = पृथ्वी → गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वजे भूमौ [१-६] इत्यनेकार्थसङ्ग्रहः श्रीहेमचन्द्राचार्यरचितः, गौः = व्योम → गोशब्द इष्टिदीधितिरागिषु व्योम्नि + [३८] इत्येकाक्षरशब्दमालाडमात्यमाधवनिर्मिता, गौ: = सूर्य: → गौ के....रवौ - [४८/४९] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, गौरेव गौरिति गोगौस्तत्र गोवद्य: स गोगोगौः = पृथ्वीपुष्करप्रभाकर: स्वज्ञानदीप्तिदेदीप्यमानत्वादज्ञानतिमिरनिवारकत्वाच्च । गो....गौश्चासौ गोगोगौरिति गो....गौः (१४)। गौ: - गौ: = धरणीविभुः पृथ्वीपतिरित्यर्थः → गौः स्यात्... धरणीविभौ * [३६/३७] इत्येकाक्षरशब्दमालाडमात्यमाधवकृता, राजाधिराजत्वात् । गो...गौश्चासौ गौश्चेति गो...गौ: (१५)। राजाधिराजस्य कुलीनत्वमस्त्येव, तदाह । गो: + ग: = उत्तम: → ग: प्रीतो भव: श्रीपतिरुत्तमः + [२३] इत्येकाक्षरनाममाला सौभरिकृता, ऊः = राजपुत्र: → ऊकार: पुरुषे चन्द्रे राजपुत्रे [गौः] अर्हत्स्तुतिः
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy