SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ गोकारेणार्हत्स्तुतिर्निगद्यते । गोगोगो - इति । अर्हन् = श्री जिनेश्वरपरमात्मा मह्यम् सौख्यं दद्यात् = मह्यम् सुखं प्रददातु डुदांग दाने ← [ ११३८ ] इति हैमधातुपाठः । अत्र ‘दद्याद्’ इति क्रियापदम्, कः कर्ता ? 'अर्हन्', किं कर्मतापन्नम् ? ‘सौख्यम्’, कस्मै ? ‘मह्यम्', अन्यान्यर्हतो विशेषणानि । कीदृश: श्रीअर्हन् ? गोगोगो-गोगो-गोगोगो-गोगोगो-गोगोगो-गो गोः । गोगोगौ: ← गौः = गुरुः → गौर्नेत्रं लज्जा गुरुः ← [२६] इत्येकाक्षरनाममाला सौभरिप्रणीता, गौः = नक्षत्रम् → कृपा नक्षत्र .... गौ ← [२४-२६] इत्येकाक्षरकाण्डः कविराघवरचित:, गौः = हिमांशुः चन्द्र इत्यर्थ: गौ ? (गौ:) पुमान् वृषभे स्वर्गे खण्डवज्र हिमांशुषु ← [४] इत्येकाक्षरीनानार्थकाण्डः श्रीधरसेनाचार्यनिर्मितः, गाव एव गाव इति गोगावः = गुरुनक्षत्राणि तत्र गोवद् यः स गोगोगौ: = गुरुनक्षत्रनिशाकरः सुरगुरुगुरुगुरुत्वात्, नक्षत्राणां राजा राजा यथा तथैवार्हन्नपि सर्वगुरूणां गुरुर्गुरुरित्यर्थः । गोगौ: गौ: = भूमिः पृथ्वीत्यर्थ: गौविनायके स्वर्गे दिशि पशौ रश्मी वज्रे भूमौ ← [६] इत्येकाक्षरनाममालिका श्रीअमरचन्द्रकविविहिता, गौः = माता → गोर्वज्रे ऽप्सु... मातृषु ← [१५] इत्येकाक्षरसंज्ञकाण्डः सचिवमहीपकृतः, गावो गौरिति गोगौ: = महीमाता पृथ्वीशब्दाल्लोकत्रयी विज्ञेया तत्पातृत्वात् । गोगोगश्चासौ गोगौरिति गोगोगो-गोगौ: (५) । [गौ: ] अर्हत्स्तुति: ८३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy