________________
पुन: कीदृशम् ? अडम् - ड: = शठ: → ड: पुमान् विषये... त्रिषु दृढे शठ: [३९/४०] इत्येकाक्षरकाण्ड: कविराघवकृतः, न ड इत्यड: अशठ: इत्यर्थः सारल्यमूर्तित्वाद् अथवा ड: = त्रास: → डकार: शङ्करे त्रासे - [१३] इत्येकाक्षरकोषो महाक्षपणकग्रथितः, न विद्यते डो यस्य यस्माद् वा स अड: = अत्रास: परवेदनाकर्तृत्वाभावादशातस्यानुदयाद्, परवेदनाऽकृतोऽशातानुदयः स्पष्ट एव, तम् ।
इति डकारेणार्हत्स्तुतिः ॥ ९ ॥
★
★
★
[ड:] अर्हत्स्तुतिः