________________
पुन: कीदृशम् ? डोडडा-ऽडीडम् ।
डोडड: + डाव: = नर: मनुष्या इत्यर्थः, 'डो'शब्दस्यायं प्रयोग: → डोरोदन्तोऽन्त्यजे नरि + [५४] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, ड: = भयम् → ड: पिशाचे भये - [६९] इत्येकाक्षरीनाममाला विश्वशम्भुगुम्फिता, डः = क्षय: → डः पुमान् विषये शम्भौ हासे त्रासे क्षये - [३३] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथभणित:, डवां ड इति डोडस्तस्य डो यस्मात् स डोडड: = मनुष्यभयक्षय: अभयदानप्रदत्वात्, मनुष्योपलक्षणात् सर्वजीवभयच्छेत्तृत्वमवगन्तव्यम् ।
अडीड: - डी = दम्भ: → दण्डे (दम्भे) डी + [५३] इत्येकाक्षरनाममालिका विश्वशम्भुप्रोक्ता, ड: = हास: हास्यमित्यर्थः → ड: पुमान् विषये शम्भौ हासे - [३९] इत्येकाक्षरकाण्ड: कविराघवप्ररूपित:, डी च डश्चेति डीडौ = दम्भहासौ, न विद्यते डीडौ यस्य स अडीड: = दम्भहासरहित: निष्कपटत्वान्मोहनीयशून्यत्वात्, अथवा डी: = धात्री पृथ्वीत्यर्थ: → डी: शिव: धात्री . [५१] इत्येकाक्षरनाममाला सौभरिप्रणीता, डम् = वध: हिंसेत्यर्थः → डं क्लीबे डामरे दुर्गे वधे - [४०] इत्येकाक्षरकाण्ड: कविराघवरचितः, न स्यात् डी: = पृथ्वी तस्यां डम् = वध: यस्मात्-यस्य प्रभावात् स अडीड: = पृथिव्यां हिंसानिवारकः । ____डोडडश्चासावडीडश्चेति डोडडा-ऽडीडः = मनुष्यभयक्षय-दम्भहासरहितः, तम् ।
पुन: कीदृशम् ? डेडुम् + डेः = धर्म: → डेर्धर्म: + [५२] इत्येकाक्षरनाममाला सौभरिनिर्मिता, डुः = दानम् → डुः फेने दाने - [५३] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, डयो डुर्यस्मात् स डेडुः = धर्मदाता परानुग्रहकृत्त्वात्, तम् ।
पुन: कीदृशम् ? डडडडम् + डः = विषय: → ड: पुमान् विषये 6 [३३] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथकृत:, डः = भीम: → डकार: शङ्करे त्रासे ध्वनौ भीमे निरूप्यते - [१८] इत्येकाक्षरकोष: पुरुषोत्तमदेवग्रथितः, ड: [ड:] अर्हत्स्तुति: