SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ डकारेणार्हत्स्तुतिर्निगद्यते । डाडडुमिति । हे डो ! • तृतीयचरणवर्युपान्त्यपदमिदम् डुः = बाल: → धातुवद् डुश्च... सर्ववधे बाले - [५१/५२] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, तस्य सम्बोधने, हे डो ! त्वम् अर्हन्तम् = श्रीतीर्थकृत्परमेश्वरम् अर्चय = पूजय इति क्रियाकारकयोगः । कीदृश हे डो ! ? डुडो ! - डुः = भ्रान्त: डुः = बलहीन: → धातुवद् डुश्च... भ्रान्ते सर्ववधे बाले बलहीने [५१/५२] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, डुश्चासौ डुश्चेति डुडुः = भ्रान्तबलहीन: संसारेऽटाट्यमानत्वात् शौर्यरहितत्वात्, तस्य सम्बोधने । अत्र ‘अर्चय' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहारतो वेद्यम्, कं कर्मतापन्नम् ? 'अर्हन्तम्', किं सम्बोधनम् ? 'हे डो !', 'डुडो' सम्बोधनस्य विशेषणमन्यानि कर्मणो विशेषणानि । कीदृशं श्रीअर्हन्तम् ? डाडडुम् - डा = पृथ्वी → डा ६मा + [५१] इत्येकाक्षरनाममाला सौभरिनिर्मिता, डः = चन्द्रः → डो भयङ्करनादेषु चन्द्रे - [५०] इत्येकाक्षरनाममालिका विश्वशम्भुविहिता, डुः = सौम्यः → डुशब्दस्तु त्रिलिङ्गे स्याद् गूढे सौम्यापसद्मयोः + [६१] इत्येकाक्षरशब्दमालाउमात्यमाधवकृता, ड इव डुरिति डडुः, डायां डडुरिति डाडडुः = सर्वंसहासोमसौम्य: परमालादप्रदत्वात्, तम्। [:] अर्हत्स्तुतिः
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy