SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ टोटोश्चासावटटश्चेति टोटोsटट: = गुरुगुर्वविरुद्धशब्दः, तम् । पुनः कीदृशम् ? टीटा -ऽटटम् । टीट: • टी: = धराधरः → टीर्धराधरः ← [ ४५] इत्येकाक्षरनाममाला सौभरिनिर्मिता, टः = स्थिरः टः स्थिरे ← [४३ ] इति पूर्वोक्तविश्वशम्भुवचनाद्, टीरिव टो य: स टीट: = धराधरस्थिरः अचलवदचल इत्यर्थः । अटट: ← टः = जरा → जरा मुकुन्दः.... टकः स्मृतः ← [२९] इत्येकाक्षरी - मातृकाकोशोऽज्ञातविहितः, टम् = मरणम् →टं नेत्रं श्रवणं पात्रं भ्रमणं मरणं तथा ← [ ४७ ] इत्येकाक्षरनाममाला सौभरिकृता, टश्च टञ्चेति टटे, न विद्येते टटे यस्य स अटटः = अजरामरः अजनित्वात् सजनेरेव तत्संभवात् । टीटश्चासावटटश्चेति टीटा - ऽटट: = अचलाचला ऽजरामरः, तम् । पुनः कीदृशम् ? टटौटम् ← टः = विषयः → टः पुमान् कटके भूपे तापेऽर्ककिरणे ध्वनौ चापध्वनौ जले वायौ विषये ← [ ६४ ] इत्येकाक्षरीनाममाला कालिदासव्यासग्रथिता, टौः = दव: दावानल इत्यर्थ: टौर्विनीतो दवः ← [ ४७ ] इत्येकाक्षरनाममाला सौभरिगुम्फिता, टम् = अब्दः अब्दे टम् ← [२०] इति पूर्वोक्तवररुचिवचनाद्, ट एव टौरिति टटौ: = विषयदावानलः तत्र टवद् य इति टटौटम् = विषयदावानलजलधरः, तद् । इतिटकारेणार्हत्स्तुतिः ॥ ७ ॥ [टः] अर्हत्स्तुतिः ४७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy