SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पूर्वोक्तकालिदासव्यासोक्ते:, टेष्ट इति टिट: = भूभूपः न केवलं सम्राट्सूनुः किन्तु स्वयमपि पृथ्वीपतिरित्याशयः । टटा चासौ टिटश्चेति टटा-टिट: = पार्थिवपुत्र - पृथ्वीपतिः, तम् । पुनः कीदृशम् ? टटा ऽटै टूटटम् । टट: ← टम् = अब्द: मेघ इत्यर्थ: अब्दे टम् ← [२०] इत्येकाक्षरनाममाला वररुचिभणिता, ट: = शब्दः टः शब्दे ← [२१] इत्येकाक्षरसंज्ञकाण्ड: महीपसचिवभणितः, टवत् टा यस्य स टटः = अब्दशब्दः मेघवद् गम्भीरशब्दवान् वाचो गाम्भीर्यगुणोपेतत्वात् । अटै: टैः = द्विड् शत्रुरित्यर्थोऽन्धो वा टैर्द्धिडन्धः ← [ ४६ ] इत्येकाक्षरनाममाला सौभरि प्रोक्ता, न विद्यन्ते टाय: अरयो यस्य स अटैः = अशत्रुः सर्वारिजेतृत्वात्, अथवा टै: = अन्ध: अज्ञानादिनेत्यर्थः न टैरिति अटै: = अनन्धः कैवल्यलोचनालोकनत्वात् । टूटट: टू: = भी: → टूर्ननन्दा स्वसा च भी: ← [ ४६ ] इत्येकाक्षरनाममाला सौभरिप्ररूपिता, टम् = अब्दः → अब्दे टम् ← [२०] इति पूर्वोक्तवररुचिवचनाद्, टः = वायुः टः पुमान् कटके भूपे तापेऽर्ककिरणे ध्वनौ चापध्वनौ जले वायौ ← [ ६४ ] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, टूरेव टमिति टूटम् तत्र तद्दूरीकरणे ट इव य: स टूटट: = भयाभ्रप्रभञ्जनः अभयदत्वात् । टटश्चासावटैश्चेति टटा ऽटै, टटा ऽटैश्चासौ टूटटश्चेति टटा - sटै- टूटट: - = अब्दशब्दा-ऽशत्रु-भयाभ्रप्रभञ्जनः, तम् । पुनः कीदृशम् ? टोटो - ऽटटम् । टोटो : टौ: = गुरु: 'टो' रूपम् टोः परेतो गुरु: ← [ ४७ ] इति पूर्वोक्तसौ भरिवचनाद्, टवां टौरिति टोटौ = गुरूणां गुरु: जगद्गुरुरित्यर्थः । अटट: ं टः = विरुद्धः → टकारः पुंसि विषये विरुद्धे ← [ ५४ ] इत्येकाक्षरशब्दमालाऽमात्यमाधवरचिता, टः = शब्दः टः शब्दे ← [२१] इति पूर्वोक्तमहीपसचिवोक्ते:, न ट इत्यटः अविरुद्ध इत्यर्थः, अटा टा यस्य स अटटः = अविरुद्धशब्दः सत्यसमेतत्वात् सत्यस्य सर्वदाऽविरुद्धत्वात् । [ट: ] अर्हत्स्तुति: ४५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy