________________
मनोरमा
अथ टकारेणार्हत्स्तुतिरुच्यते ।
टटा- टिटमिति ।
टौः = शिष्य : 'टो' कारस्यायं प्रयोगः → टोः परेतो गुरुः शिष्यः ← [ ४७ ] इत्येकाक्षरनाममाला सौभरिप्रणीता, तस्य सम्बोधने, हे टौः ! त्वम् अर्हन्तम् श्रीतीर्थकरपरमात्मानम् सुभावतः = प्रशस्यभक्त्या स्तुष्व = स्तवनविषयीकुरुष्व इति क्रियाकारकसंयोजना |
कीदृश हे टौः ! ? टटौ ! टः = स्थिरः टः स्थिरे ← [ ४३] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, टौः = विनीतः टौर्विनीतः ← [ ४७ ] इत्येकाक्षरनाममाला सौभरिनिर्मिता, टश्चासौ टौश्चति टटौ: = स्थिरविनीतः शिष्यस्य चाञ्चल्यरहितत्वान्नम्रत्वात्, तस्य सम्बोधने ।
अत्र 'स्तुष्व' इति क्रियापदम्, कः कर्ता ? ' त्वम्' अध्याहारतो ज्ञातव्यम्, कं कर्मतापन्नम् ? ‘अर्हन्तम्', किं सम्बोधनम् ? ' टौ:', कीदृग्रीत्या ? ' सुभावतः', 'टटौ : ' सम्बोधनस्य विशेषणमन्यानि कर्मणो विशेषणानि ।
=
कीदृशं श्रीअर्हन्तम् ? टटा - टिटम् ।
टटा - ट: = भूपः → टः पुमान् कटके भूपे ← [ ६४ ] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, टा = सूनुः सूनौ भूव्यावृत्त्योस्तु टा स्त्रियाम् ← [ ६५ ] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, टस्य टेति टटा = पार्थिवपुत्रः अर्हतां प्रशस्याभिराम एव जनुस्त्वात् ।
P
टिट: टि: = पृथ्वी भूरित्यर्थ: टिः करेणुर्भूः ← [ ४५] इत्येकाक्षरनाममाला सौभरिग्रथिता, टः = भूपटः पुमान् कटके भूपे ← [ ६४ ] इति
[ट] अर्हत्स्तुति:
४३