________________
धिनाथकृतः, ञो ओ यस्मात् स ञञः = गतगर्व: निष्कषायत्वात्, तम् ।
पुन: कीदृशम् ? अञम् - ञ: = ज्ञानम् → जो ज्ञाने + [४१] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, ञः = निधानम् → उपाये ञ ? (ओ) निधाने 6 [५२] इत्येकाक्षरशब्दमालामात्यमाधवगुम्फिता, अस्य जो यस्य स अञ: = ज्ञाननिधान: सर्वज्ञत्वाद्, तम्, अथवा ञः = गूढम् → ञः पुन: गायने घर्घरध्वाने गूढ-रूपकयोस्तथा 6 [१९] इत्येकाक्षरीयप्रथमकाण्डः परमानन्दनन्दनभणित:, जो ओ यस्य स अञ: = गूढज्ञान: केवलज्ञानित्वात् केवलज्ञानस्य सर्वत्राप्रतिहतत्वात्, तम् ।। ___पुन: कीदृशम् ? अजूञम् - : = चतुरा: कुशलजना इत्यर्थः → जो मुनौ चतुरे - [१९] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्रोक्तः, ञ्व: = भ्रमरा: शब्दस्य बहुवचने प्रयोग: → अं जूनि(रि)ति प्रतापे च हंसके भ्रमरे - [५२] इति पूर्वोक्तमाधववचनाद्, ञम् = पद्मम् → जो व्यूहे...क्लीबे तु भयपद्मयो: . [२९/३०] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथप्रणीतः, ञा एव व इति अञ्च: = चतुरभ्रमरा: तत्र ञवद् य: स अजूञम् = चतुरभ्रमरकमलम् चातुर्यसुरभिमत्त्वात् सच्चारित्रसद्रूपवत्त्वाच्च, तद्, अथवा 'अजू-ञम्' इति श्लेष: कर्तव्यः, अजू: - ञः = सिद्धिः → सिद्धिरङ्कुशी शर्वसंज्ञक: झान्तगो ह्यनुनासश्च ञकारश्च - [२८] इत्येकाक्षरीमातृका-कोशोऽज्ञातरचितः, जू: = उपाय: → जं जूनि(रि)ति प्रतापे च हंसके भ्रमरे मदे उपाये - [५२] इत्येकाक्षरशब्दमाला-डमात्यमाधवनिर्मिता, ञस्य यूः स्याद् यस्मात् स अजू: = सिद्धेरुपायद: मोक्षमार्गोपदेशकत्वात्, ञ: = प्राज्ञ: → ञ: प्राज्ञपटगायने - [९] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातविहिता, प्रबुद्धत्वात्, अश्चासौ ञश्चेति अजू-ञः = सिद्ध्युपायप्रद-प्राज्ञः, तम् ।
पुनः कीदृशम् ? जा-ऽञञञऔ-अञञिम् ।
: = सुखद: → अकारो बोधिनी विश्वा कुण्डली म(सु)खदो वियत् 6 [८६] इति प्रकारान्तरमन्त्राभिधाने, मुक्तिदायकत्वात् । ____ अञञञऔः + ञः = ज्ञानम् → जो ज्ञाने 6 [४१] इति पूर्वोक्तविश्वशम्भुवचनाद्, न विद्यते जो येषां ते अञा: = अज्ञानिन: ञा: = श्वान: कुर्कुरा इत्यर्थः → ञ: श्वा [४२] इत्येकाक्षरनाममाला सौभरिकृता, औः = करी → औ!: पाषण्डवाक् करी - [४४] इत्येकाक्षरनाममाला सौभरिग्रथिता, [ञ:] अर्हत्स्तुति:
३७