________________
मनोरमा
अथ ञकारेणार्हत्स्तुति: प्रोच्यते । अजं अञमिति ।
हे जे ! • ञिः = सम्राड् → ञि: सम्रा - [४३] इत्येकाक्षरनाममाला सौभरिप्रणीता, तस्य सम्बोधने, त्वम् अर्हन्तम् = श्रीतीर्थकरपरमात्मानम् नम = वन्दस्व तथा नुहि = स्तुहि ‘तथा' समुच्चये, इति क्रियाकारकयोगः ।
कीदृश हे जे ! ? अञ ! • अम् = मद: → अं जूनि(रि)ति प्रतापे च हंसके भ्रमरे मदे + [५२] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रणीता, ञि: = पर्वत: → ञिस्तु पर्वते - [४२] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, अमेव जिर्यस्य स अञिः = मदमहीधर: सर्वस्वामित्वस्य मानोत्पत्तेरपि संभवस्तस्य सम्बोधने ।
पुनः कीदृश ! ? जे - ञिः = चञ्चल: → ञिस्तु पर्वते निषेधे चञ्चले * [४२] इत्येकाक्षरनाममालिका विश्वशम्भुनिर्मिता, मनसोऽस्थैर्यात्, तस्य सम्बोधने ।
अत्र 'नम' 'नुहि' इति क्रियापदे, क: कर्ता ? 'त्वम्' अध्याहारतो ग्राह्यम्, कं कर्मतापन्नम् ? 'अर्हन्तम्', 'जे-अजे' सम्बोधनस्य विशेषणे, अन्यान्यखिलानि कर्मणो विशेषणानि, 'तथा' समुच्चये ।
अथाभिमानी सम्राडभिमानरहितमेवार्हन्तमभिनमतीति बिभणिषुरर्हतो गतगर्वत्वमभिदधाति ।
कीदृशं श्रीअर्हन्तम् ? अञम् + ञः = गत: → ञ: शब्द: स्यादले विपत्तौ च दावाग्नौ चापि गते 6 [२५] इत्यजिरादि-एकाक्षरीनाममाला-ऽज्ञातविहिता,
ञ: = गर्व: → जो व्यूहे विषये गर्वे 6 [२९] इत्येकाक्षरकाण्ड इरुगपदण्डा[ञः] अर्हत्स्तुति:
३५