SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ काण्ड इरुगपदण्डाधिनाथग्रथितः, झम् = पद्मम् → झो व्यूहे...क्लीबे तु भयपद्मयो: “ [६२] इत्येकाक्षरीनाममाला कालिदासव्यासगुम्फिता, झावो इव इति झौझ्वस्ते एव झा इति झौझूझास्तत्र झवद् य: स झोझूझझम् = स्वर्गामरभ्रमरारविन्दम् इन्दिन्दिरैर्यथारविन्दमालोक्य तत्रासज्यन्ते तथैव सुरवरैरप्यर्हच्चरणाम्बुजे इत्याशयः । ___ अझूझ: • झूः = शोक: → शोके मूढासमोचने च झुः, ऊदन्त: [४०] इत्येकाक्षरनाममालिका विश्वशम्भुभणिता, झम् = भयम् → झो व्यूहे... क्लीबे तु भयपद्मयो: * [६२] इति पूर्वोक्तविश्वशम्भुवचनाद्, झूश्च झञ्चेति झूझे, न विद्येते झूझे यस्य स अझूझ: = शोकभयरहित: महानन्दानन्दोदधिनिमग्न त्वात् । झोझूझझञ्चासावझूझश्चेति झोझूझझाऽझूझ: = स्वर्गामरभ्रमरारविन्दशोकभयरहितः । पुन: कीदृश: ? अझझ: • झम् = मैथुनम् → झं मैथुनमिति स्मृतम् 6 [४२] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, झ: = वाञ्छा → झो व्यूहे विषये गर्वे लेपे मूर्ध्नि खरध्वनौ महेश्वरे च वाञ्छायाम् [६२] इत्येकाक्षरी - नाममाला कालिदासव्यासप्ररूपिता, नास्ति झस्य झो यस्य स अझझ: = कामकेलिकाङ्क्षारहित: अनभिष्वगित्वाद्, अथवा झम् = धनम् → वने (धने) च भुवने झम् + [३९] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, झ:= वाञ्छा पूर्वोक्तेः, नास्ति झस्य झो यस्य स अझझः = वित्तवाञ्छारहित: निराशंसत्वात् । __ पुन: कीदृश: ? झझझझ: - झम् = एकान्तम् एकान्तवाद इत्याशयः → एकान्ते सगते च झम् - [३९] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, झ: = विचार: → झ: पुंलिङ्गे जवे व्योम्नि विचारे च प्रकीर्त्यते [५०] इत्येकाक्षरशब्दमालाडमात्यमाधवनिर्मिता, झ: = चोर: → झ: पुमान् भ्रमणे नष्टे प्रतापे हंसचोरयो: 6 [३४] इत्येकाक्षरकाण्ड: कविराघवविहितः, झ: = चार: गुप्तचर इत्यर्थः → चारुवाक्-चारयोर्झ: [१९] इत्येकाक्षरनाममाला सुधाकलशमुनिकृता, झस्य झ इति झझः, स एव झ इति इाझझस्तत्र [झः] अर्हत्स्तुति: २९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy