________________
___ पुन: कीदृशम् ? छोछूम् - छौः = अलङ्कृत: 'छो'शब्दस्यासौ प्रयोग: → छोः पूर्णोऽलङ्कृत: - [३७] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, छू: = पृथ्वी → छू : - [३७] इति पूर्वोक्तसौभरिवचनाद्, छौः = अलकृता छू: = अवनि: येन स छोछू: = अलङ्कृतावनि: अनन्यत्वाद् भूषणायमानत्वाच्च, तम् ।
हूस्वानन्तरच्छकारस्य द्विर्भावात् पूर्वस्मिन् चकारदर्शनेनान्यवर्णदर्शनादत्र सर्वत्र दीर्घत्वमेवोररीकृतम्, तेनच्छन्दश्चात्र ‘विद्युन्माला' लक्षणं च तस्य → मो मो गो गो विद्युन्माला - [पृ.- २५] इतिच्छन्दोमञ्जरी । द्वितीयतूर्यचरणान्त्ययोईस्वत्वेऽपि गुरुत्वपरिगणनान्न दोषः ।
इतिच्छकारेणार्हत्स्तुतिः ॥ ४ ॥
[छ:] अर्हत्स्तुतिः