SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मनोरमा अथ डकारेणार्हत्स्तुतिमाह । डडं डीडो-डङा-ऽडाङमिति । हे ङ ! - ङः = पूजक: → ङः पूजकद्विजकाक्षे - [८] इति नत्वादिएकाक्षरीनाममालाऽज्ञातप्रणीता, तस्य सम्बोधने, त्वम् अर्हन्तम् = श्रीजिनेश्वरम् समर्च = पूजय हे सम्बोधने → हे - अ. सम्बोधने - [पृ.५४३४] इति वाचस्पत्यम्, पूजकोऽद्य यावदन्यदेवं पूजितवानथास्मायेवार्चयेत्याशय: । कीदृश हे ङ ! ? डङ = ङः = निन्दा , ङ शून्ये दानवाञ्छायां निन्दायाम् + [३०] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, ङः = व्यसनम् → (ङ)कार: पुंसि शब्दज्ञे पुं व्यसन-[४२] इत्येकाक्षरशब्दमालाडमात्यमाधवनिर्मिता, डस्य ङो यस्य स डङ = निन्दाव्यसन: अतीवापवादाचारकत्वाद् व्यसनित्वम्, तस्य सम्बोधने । __ अत्र ‘समर्च' इति क्रियापदम्, क: कर्ता ? 'त्वम्', कं कर्मतापन्नम् ? 'अर्हन्तम्', किं सम्बोधनम् ? 'हे ङ !', 'टुङ !' सम्बोधनस्य विशेषणमन्यानि कर्मणो विशेषणानि । __ अथ कीदृशं श्रीअर्हन्तम् ? डडम् - ङः = व्यसनम् → (ङ)कारः पुंसि शब्दजे पुं व्यसन- [४२] इत्येकाक्षरशब्दमालाऽमात्यमाधवसमुदिता, ङः = शून्य: → ङः शून्ये - [३२] इत्येकाक्षरनाममालिका विश्वशम्भुकथिता, ङाद् ङ इति ढुङ: = व्यसनशून्य: निर्व्यसनीत्यर्थः, तम् । पुनः कीदृशम् ? डीडो-डङा-ऽडाङम् । डीङौः - डी: = पार्थिव: → डीभूप: [३१] इत्येकाक्षरनाममाला [] अर्हत्स्तुतिः १३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy