SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ इत्येकाक्षरनाममाला सुधाकलशमुनिविहिता, ण: = भूषण: → ण: पुमान् बिन्दुदेवे स्याद् भूषणे - [१२] इत्येकाक्षरनाममाला मेदिनीकरकृता, टस्य ण इति टण: = भूभूषण: तदनुपमत्वात्, तम् । पुनः कीदृशम् ? धबम् - धम् = सुखम् → धं धनं धूननं दानं धारणं करणं सुखम् - [६६] इत्येकाक्षरनाममाला सौभरिग्रथिता, ब: = सागर: → ब: पुमान् वरुणे सिन्धौ - [२३] इत्येकाक्षरनाममाला मेदिनीकरगुम्फिता, धस्य ब इति धब: = सुखसिन्धुः पूर्वं सुखस्य प्रशस्यत्वं व्याख्यातमधुनानन्त्यमिति, तम् । ____ पुन: कीदृशम् ? लम् + लम् = सर्वफलप्रदम् → लकारं शक्रबीजं स्यात् पीतं सर्वफलप्रदम् - [४३] इत्येकाक्षरनाममालाऽज्ञातप्रोक्ता, सर्वद इत्याशय:, तद् । पुन: कीदृशम् ? सम् + सः = ईश्वर: → स ईश्वर: * [३५] इत्येकाक्षरकोश: पुरुषोत्तमदेवप्ररूपित:, परमैश्वर्योपभोक्तृत्वात्, तम् । पुनः कीदृशम् ? घजम् + घ: = मेघ: → मेघे निदाघे किङ्किण्यां घण्टायां घट्टने च घ: - [२७] इत्येकाक्षरकाण्ड: कविराघवप्रणीत:, जः = शब्द: → जो जये विजये मेरौ शब्दे - [३१] इत्येकाक्षरकाण्ड: कविराघवरचितः, घवज्जा यस्य स घज: = अब्दशब्द: मेघवद् गाम्भीर्यपूर्णशब्दवानित्याशयः, तम् । पुनः कीदृशम् ? ठतम् + ठ: = ज्ञानी → ठ: सूनुर्ज्ञानी - [४८] इत्येकाक्षरनाममाला सौभरिनिर्मिता, तम् = तरणम् → तश्चौरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित् अपुमास्तरणे - [१४] इत्येकाक्षरनाममाला मेदिनीकारविहिता, ठानां तं यस्मात् स ठत: = ज्ञानितारक: परमज्ञानित्वात् सन्मार्गप्ररूपकत्वाच्च, तम् । पुन: कीदृशम् ? नभम् + नः = तरणि: → तरणौ न: प्रकीर्तित: * [१९] इत्येकाक्षरकोषो महाक्षपणककृत:, भा = दीप्ति: → भा दीप्तिरपि * [२४] इत्येकाक्षरकोषो मनोहरग्रथितः, न इव भा यस्य स नभ: = सूर्यप्रभ: अतीवदेदीप्यमानत्वादज्ञानतमोनिवारकत्वाच्च, तम् । अथेयं स्तुतिन केवलं श्रीकलिकुण्डपार्श्वस्यैवापि तु श्रीजिनवरसामान्यस्यापि तथा हि। मङ्गलाचरणम्
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy