SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ मञ्जुला अथ जिनेन्द्रस्तोत्रप्रशस्तिर्निगद्यते । स्तोत्रं न्विदमिति । अशेषजिनेश्वराणाम् = अखिलार्हताम् इदं स्तोत्रम् अमुं स्तवं जिनेन्द्रनामकम् अर्हतां राजेन्द्रसूरिसुगुरोश्च कृपया = तीर्थकराणां तथा स्वप्रगुरोः सद्गुरोः कलिकुण्डाद्यनेकतीर्थोद्धारकपूज्याचार्यविजयराजेन्द्रसूरिवरस्य च करुणया गुरोः श्रीराजपुण्यविजयस्य विनेयः श्रीराजसुन्दरमुनिः सुभक्त्या = अतीवभक्तिपूर्वकम् स्वहृदयपरमोल्लासादित्यर्थ: द्रुतम् = शीघ्रम् कृतवान् = रचितवान् । जिनेन्द्रसंस्तवनान्नूनं स्यात्तत्कृपोपलब्धिस्तथा च गुर्विच्छापूरणाच्चावश्यं स्याद् गुरुकृपाप्राप्तिरत एवाह 'देवगुरुकृपये 'ति । विना तयास्य समाप्तेरसम्भवात् । = सौम्यवदनाख्यकाव्यानन्तरं जिनराजस्तोत्रानन्तरं निरमायि जिनेन्द्रस्तवनास्वरूपं ‘जिनेन्द्रस्तोत्रम्’ अतीवभक्तिफलमत आह 'सुभक्त्येति' अन्यथास्य जननविरहाद् । न चैवमथास्मादेवास्तु परितोषः प्रार्थये परमेश्वरं यदन्यान्यमर्हत्संस्तवनमप्यस्तु भविष्यतीति । प्रशस्ति: श्रीप्रथमेशादारभ्यावीरजिनेश्वरं - सर्वसार्वसंस्तवनादाह- 'अशेष' इति ! उपहस्तिनापुरतीर्थान्मवानाग्रामादारभ्य सम्मेतशिखरशैलालङ्कृते मधुवनग्रामे न्यूननवतिदिनेष्वेव समाप्तमत आह 'द्रुतम्' इति । सर्वेषामर्हतां संस्तवनात्सर्वार्हतां कृपावाप्तिरतः 'अर्हताम्' इत्यत्र बहुत्व मुक्तम् । १७५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy