________________
मञ्जुला
य: पार्श्व: (सर्वज्ञः) स स्यादेव महावीर इत्यनेन सम्बन्धेनायातस्य श्रीमहावीरस्वामिन: स्तुतिरुद्गीर्यते ।
हहहमिति ।
ह ह ! - ह सम्बोधने → ह सम्बुद्धौ - [४२] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्रणीत:, हः = शूरः → हः कामशूर- 6 [१५] इति नत्वादिएकाक्षरीनाममालाऽज्ञातनिर्मिता, तस्य सम्बोधने ह ह ! = हे शूर ! त्वम् सर्वदा = सदैव वीरम् = श्रीमहावीरस्वामिनम् उपास्व = वरिवस्य उपासनां कुर्वित्याशय: → उपास्तौ वरिवस्यति शुषूषते ? परिचरत्युपास्ते + [५५- ब्राचेष्टावर्ग:] इत्याख्यातचन्द्रिका भट्टमल्लविरचिता, इति क्रियाकारकसम्बन्धः ।
अत्र ‘उपारस्व' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहारिपदम्, कं कर्मतापन्नम् ? 'वीरम्', कदा ? 'सर्वदा', किं सम्बोधनम् ? ‘ह ! ह !', अपराणि श्रीवीरजिनस्य विशेषणानि ।
कीदृशं श्रीमहावीरस्वामिनम् ? हहहम् - हः = गर्व: अभिमान इत्यर्थ: → हः शङ्करे हरौ हंसे रणरोमाञ्चवाजिषु गर्वे - [७३/७४] इति नानार्थरत्नमालेरुगपदण्डाधिनाथरचिता, हः = गज: → हो हर्षे वायुपुत्रे स्यात् सम्बुद्धौ पादपूरणे गजे - [१४४/१४५] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, हः = सिंहः → हकार: पुंसि जनने हरिण्यां हरिसिंहयो: ६ [११५] इत्येकाक्षरशब्दमालाडमात्यमाधवविहिता, ह एव ह इति हहस्तत्र ह इव य: स हहहः = गर्वगजकेसरी, तम् ।
पुन: कीदृशम् ? हहहम् हः = नाक: स्वर्ग इत्यर्थः → हः शिवे सलिले हः] श्रीमहावीर स्वामिस्तुति: १६७