SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ इत्येकाक्षरीमातृकाकोशोऽज्ञातविहितः, स: = भा: → स: पुंस्युमासुते वायौ देहभा:- * [७८] इत्येकाक्षरकाण्ड: कविराघवविरचितः, स इव सो यस्य स सस: = शशिशुचि: आह्लादजननहेतुत्वात् । पुन: कीदृश: ? स: + स: = श्रेष्ठ: → सकार: कीर्तित: श्रेष्ठे - [३५] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातग्रथिता, पुरुषोत्तमत्वात् । पुन: कीदृश: ? सस: - सम् = सम्यक् → सं सम्यक् परिकीर्तितम् - [४३] इत्येकाक्षरनाममाला वररुचिभणिता, सम् = ज्ञानम् → सं पक्षिस्पन्दने क्लीबे ज्ञाने - [७९] इत्येकाक्षरकाण्ड: कविराघवप्रोक्तः, सं सं यस्मात् स सस: = सम्यग्ज्ञानदायक: सन्मार्गोपदेशकत्वात् । __पुन: कीदृश: ? सस: - स: = समय: अभेद्यकाल इत्यर्थः → समय: सामग: शुक्रः सङ्गति: सार्णक: 6 [५०] इत्येकाक्षरीमातृकाकोशोऽज्ञातग्रथितः, सम् = ज्ञानम् → सं क्लीबे स्पन्दनपथे ज्ञाने - [७१] इति नानार्थरत्नमालेरुगपदण्डाधिनाथगुम्फिता, सस्य सं यस्य स सस: = समयावबोधी सूक्ष्मज्ञत्वात् समयस्य सूक्ष्मत्वं ध्वनितमनु योगद्वारे [सू.-३६६] कैवल्यादेवै क समयस्यावगम्यत्वात् । पुन: कीदृश: ? सस: - स: = सूर्यः → स: सोमे सोमपानेऽपि सूर्ये - [११२] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, स: = भा: प्रभेत्यर्थः → स: पुंस्युमासुते वायौ देह-भा: - [७८] इत्येकाक्षरकाण्ड: कविराघवरचित:, सवत् सो यस्य स सस: = सूर्यप्रभ: अतीवप्रदीप्रत्वात् ।। पुन: कीदृश: ? स: - स: = सुरूप: अनन्यलावण्यवानित्यर्थः, अथवा स: = सुयशा: निर्मलयशा इत्यर्थः → सो हंस: सुयशाः... सुरूपश्च - [१५९-१६१] इति प्रकारान्तरमन्त्राभिधानम्, अर्हद्रूपस्य अर्हद्यशसश्च सर्वगत्वात् । पुन: कीदृश: ? सस: + स: = दुर्जन: → सोऽस्रभुक्सिंहदुर्जने - [१५] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातकृता, स: = हितम् हितकारीत्यर्थ: → सकार: पुंसि साकारे गौरीपुत्रे प्रभञ्जने धर्मे हिते + [११२] इत्येकाक्षरशब्दमालाडमात्यमाधवविहिता, सानां स इति सस: = दुर्जनानां हितकारी । [स:] श्रीपार्श्वनाथजिनस्तुति: १६१
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy