SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ मञ्जुला यो नेमि: (नयति = प्रापयति सिद्धिसुखम् ) स पार्श्वः = सर्वज्ञः (स्पृशति = जानाति ज्ञानेन सर्वमिति पार्श्व: - ' स्पृश संस्पर्शने' पृषोदरादित्वात् साधुः) इत्यनेन सम्बन्धेनागतस्य श्रीपार्श्वनाथस्वामिनः स्तुतिरभिधीयते । सस सस इति । पार्श्वः = श्रीपार्श्वनाथ: शिवश्रियम् = मुक्तिलक्ष्मीम् दद्यात् = दिश्यात् इति क्रियाकारकयोगः → डुदांग्क् दाने ← [ ११३८ ] इति हैमधातुपाठः । अत्र 'दद्यात्' इति क्रियापदम्, कः कर्ता ? ' पार्श्वः', कां कर्मतापन्नाम् ? ‘शिर्वाश्रयम्’, अन्यानि श्रीपार्श्वस्य विशेषणानि । कीदृश: श्रीपार्श्वनाथ: ? ससः • सम् = सुखम् → सं सुखम् ← [ ९४] इत्येकाक्षरनाममाला सौभरिप्रणीता, सः = निवासः सः सङ्गार्थे शोभनार्थे प्रकृष्टार्थसमर्थयोः प्रथमे तदवस्थाने निवासे ← [ १३७/१३८] इत्येकाक्षरीनाममाला कालिदासव्यास रचिता, सस्य सो यः स सस: = सुखसदनम् आत्मामन्दानन्दनिमग्नत्वादसातस्यानुदयाच्च । पुनः कीदृश: ? ससः सः = सनातनम् ध्रुवमित्यर्थः → सः पुंसि मदने वायौ परोक्षसूर्ययोरपि सनातने ← [ १३७ ] इत्येकाक्षरीनाममाला कालिदासव्यासनिर्मिता, सम् = यौवनम् सं वनं धनं यौवनेऽपि समाख्यातम् [११२/११३] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, सः सं यस्य स ससः = सनातनयौवन: अनश्वरतारुण्य इत्यर्थः वार्धक्यविरहितत्वात् । पुनः कीदृश: ? ससः सः = शशी → सार्णक: शशी ← [५० ] [स] श्रीपार्श्वनाथजिनस्तुतिः १५९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy