SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ मञ्जुला यो नमि: (नमयति बाह्याभ्यन्तररिपून् ) स नेमि: ( नयति = प्रापयति शीघ्रं शैवसुखम् ) →णीं प्रापणे ← [ ८८४] इति हैमधातुपाठ नियो मिः ← [४८३ ] इत्युणादिपाठः, गुणश्चेति सम्बन्धेनायातस्य श्रीनेमिनाथजिनस्य स्तुतिराख्यायते । षषं षषमिति । - हे ष ! ० षः = विज्ञः षः पुंसि केशे विज्ञे ← [ पृ. १९६२ ] इति शब्दस्तोममहानिधिस्तारानाथप्रणीतः, तस्य सम्बोधने हे ष ! त्वं नेमीनम् श्रीनेमिनाथम् नम = वन्दस्व मन = अर्चय णम नतौ ← [ पृ. ४९८ ] मन पूजायाम् ← [पृ. ८४४] इति शब्दस्तोममहानिधिस्तारानाथप्रोक्तः, वा समुच्चये → वा स्याद् विकल्पोपमयोरेवार्थे च समुच्चये ← [ ७२] इत्येकाक्षरकाण्डः कविराघवविरचित:, इति क्रियाकारकयोजना । कीदृश हे ष ? षषष : = विषयः काम इत्यर्थः → षः स्वर्गे विषये च ना ← [६९] इति नानार्थरत्नमालेरुगपदण्डाधिनाथविहिता, षः = अग्निः → ष: शून्यार्काग्निकीनाशे ← [१५] इति नत्वादि- एकाक्षरीनाममालाऽज्ञातग्रथिता, षस्य षो यस्य स षषः = विषयवह्निः कामाग्निना दग्ध इत्यर्थस्तस्य सम्बोधने । गुणिनः संस्तवनाद् निगुर्णोऽपि गुणितां प्रयात्यतो ब्रह्मपरं परब्रह्मस्वरूपं श्रीनेमिनाथजिनेश्वरं वन्दस्वार्चय चेत्युपदेशः कामार्तस्य विशेषतः । अत्र ‘नम मन’ चेति द्वे अपि क्रियापदे, कः कर्ता ? ‘त्वम्’ अध्याहार्यमिदम्, कं कर्मतापन्नम् ? 'नेमीनम्' इति, किं सम्बोधनम् ? 'ष !', ' षष' इति तु तस्य विशेषणम्, अन्यानि श्रीनेमीनस्य कर्मतापन्नस्य विशेषणानि । कीदृशं श्रीनेमीनम् ? षषम् षः = श्रेष्ठः ष: श्रेष्ठे ← [४१] [ ष: ] श्रीनेमिनाथजिनस्तुतिः १५३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy