SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ वारिदवारुणौ उत्कारी जलसंज्ञश्च खड्गीशोऽपि वकारक: [४७] इत्येकाक्षरीमातृकाकोशोऽज्ञातकृत:, वमेव व इति ववस्तस्य प्रदाने व इव य: स वववः = सुखवारिवारिद: सर्वासुमतां सातप्रतीतिकारकत्वात्, तम् ।। ___पुन: कीदृशम् ? वववम् न् व: = वध: हिंसेत्यर्थ: → व: पुमान् गत्वरे वायौ संयमे वरुणे स्मरे कान्तारेऽग्नौ वधे [१२५] इत्येकाक्षरीनाममाला कालिदासव्यासविहिता, व: = वारिद: → वारिद-....वकारक: + [४७] इति पूर्वोक्तैकाक्षरीमातृकाकोशवचनात्, व: = वायु: → व: पुमान् सान्त्वने वायौ . [६४] इति नानार्थरत्नमालेरुगपदण्डाधिनाथगुम्फिता, व एव व इति वव: तत्रतदूरीकरणे व इव य: स ववव: = वधवारिदवायु: अतिशयविशेषात्, तम्, वायोरागमने यथा वारिदस्य दूरीभवनं तथैव तीर्थकृदायाने तत्क्षेत्राद् साधिकशतयोजनं यावन्न स्याद्धिंसादिरिति भावः । पुन: कीदृशम् ? वम् व: = श्रेष्ठ: → श्रेष्ठे विकारे व: प्रकीर्तित: [३२] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातग्रथिता, पुरुषोत्तमत्वात् सर्वगुणसम्पन्नत्वाच्च, तम् । पुन: कीदृशम् ? वम् » व: = बुध: → वो बुध: - [२९] इति पूर्वोक्तमहाक्षपणकवचनाद्, प्रबुद्धत्वात्, तम् । श्रीमुनिसुव्रतस्वामिचतुष्कल्याणपावने । श्रेष्ठे राजगृहीतीर्थे स्तुत्वा श्रीमुनिसुव्रतम् ।। १ ।। वकारेणाथ तस्यैव जिनस्य विहिता स्तुतिः । चैत्रमासस्य कृष्णायां त्रयोदश्यां तिथौ मया ।। २ ।। युग्मम् ।। इति श्रीमुनिसुव्रतस्वामिस्तुति: ।। २२ ।। [व:] श्रीमुनिसुव्रतस्वामिस्तुतिः १४३
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy