________________
श्रोत्रं वचो विषम् - [८५] इत्येकाक्षरनाममाला सौभरिरचिता, ल: = अमृतम् → ल इन्द्रे चलनेऽमृते - [३९] इत्यनेकार्थतिलक: सचिवमहीपनिर्मित:, ल एव लमिति ललम्, तत्र ल इव य: स ललल: = भयविषनिवारणे पीयूषोपमः, तम्, निर्भय इत्यर्थ: अप्रमत्तत्वात् प्रमत्तस्य सर्वतो भयोपपत्तेस्तथा च पारमर्षम् → सव्वतो पमत्तस्स भयं सव्वतो अप्पमत्तस्स णत्थि भयम् - [१२९] इत्यचारागसूत्रे ।
पुन: कीदृशम् ? ललम् - ल: = दया → लश्चामृते दिशायाम् (दयायाम्) 6 [३९] इत्येकाक्षरनाममाला सुधाकलशमुनिकृता, ल: = आलय: → ल आलये - [१०६] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, लस्य ल इति लल: = दयासदनम् परमकारुण्यात्, तम् ।
नन्वस्तु जिनस्य दयालुत्वं किन्तु केषु दयावारिवर्षित्वं तत्तु नोदितमीक्ष्यतेऽत्र बहूनां स्वार्थिनां तृप्तेष्वेव कृपावर्षकत्वं न चायमेतादृशो दीनेष्वपि दयादानवर्षित्वात्, तदेवाह ।
पुन: कीदृशम् ? ललम् - ल: = दीन: → दीनेन्दुविहङ्गमे - [१४] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातविहिता, ल: = दानम् → लश्च दाने प्रकीर्तित: 6 [३१] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातगुम्फिता, लेभ्यो लो यस्य यस्माद् वा स लल: = दीनदानदायक: निर्धनेऽपि दयालुत्वात्, तम् ।
पुन: कीदृशम् ? ललम् + ल: = शशी → लो दीनेन्दुविहङ्गमे - [१४] इति पूर्वोक्तनत्वादिनाममालोक्तेः, ल: = दीप्तिरालादनं वा → लो दीप्तौ द्यां लश्च भूमौ भये चालादनेऽपि च - [३०] इत्येकाक्षरकोष: पुरुषोत्तमदेवप्रणीत:, लवद् दीप्तिरालादनम् वा यस्य यस्माद् वा स लल: = शशिवद् दीप्तिमान् शशिवदाह्लादको वा नयनरम्यत्वात्, तम् ।
पुन: कीदृशम् ? लम् - ल: = विमल: → विमलो लघु:..... लकारक: - [५२] इति प्रकारान्तरवर्णनिघण्टुः, द्रव्यभावतो निर्मल इत्याशयः, तम् ।
औरङ्गाबादपुर्यां श्री-मल्लिनाथजिनेशितुः । स्तुतिश्चैत्रे शितौ षष्ठ्यां लकारेण प्रकीर्तिता ।। १ ।।
इति श्रीमल्लिनाथजिनस्तुतिः ।। २१ ।।
[ल:] श्रीमल्लिनाथजिनस्तुतिः ..
१३७