SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मजुला य: शान्तिदाता स कुन्थुः (कौ = पृथ्व्यां सर्वजीवानां पाता) इत्यनेन सम्बन्धेनागतस्य श्रीकुन्थुनाथजिनस्य स्तुतिरुच्यते । यययमिति । हे य ! • य: = याचक: → याचके योऽतिकुत्सने — [१८] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, तस्य सम्बोधने हे य ! = भो याचक ! त्वं कुन्थुनाथम् = श्रीकुन्थुनाथजिनेश्वरम् समर्चय = पूजय ‘सम्’-उपसर्गपूर्वक: 'अ'धातु: → अर्चिण पूजायाम् + [१९५४] इति हैमधातुपाठः, इति क्रियाकारकसम्बन्धः, कीदृश भो य ! ? यय - य: = विनय: य: = भाव: → यकार: पुंसि पवने यमे धातरि यातरि त्यागे भावे चये लिप्ये विनये - [९४] इत्येकाक्षरशब्दमालामात्यमाधवप्रणीता, यस्य यो यस्य स यय: = विनयभाववान् विनम्रत्वादत एवार्हत्क्रमयो: समागतिस्तस्य, तस्य संबोधने । अत्र ‘समर्चय' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहारि पदम्, कं कर्मतापन्नम् ? 'कुन्थुनाथम्', किं सम्बोधनम् ? 'य', 'यय' तस्य विशेषणमपराणि श्रीकुन्थुनाथस्वामिनो विशेषणानि । कीदृशं श्रीकुन्थुनाथम् ? यययम् • यः = त्याग: → यस्त्यागे [६३] इत्येकाक्षरकाण्ड: कविराघवनिर्मित:, यम् = जलम् → यमम्भसि + [३६] इत्यनेकार्थतिलक: सचिवमहीपविरचितः, यम् = सरित्पति: समुद्र इत्यर्थ: → यं संसारे सरित्पतौ — [१००] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, य एव यमिति ययम्, ययस्य यमिति यययम् = त्यागसलिलसागर: सिन्धौ यथा जलबिन्दूनां [य:) श्रीकुन्थुनाथजिनस्तुतिः ११७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy