________________
पुनः कीदृशम् ? मम् - म: = ईश्वर: → मकारमीश्वरम् - [४०] इत्येकाक्षरनाममालाऽज्ञातविहिता, परमैश्वर्यवत्त्वात् तदुक्तम् → स्वाभाविककर्मक्षयजन्यसुरनिर्वर्तितचतुस्त्रिंशदतिशयलक्षणं तेषां परमैश्वर्यम् - [१०४८] इति विशेषावश्यकभाष्यवृत्तौ, तम् ।
पुन: कीदृशम् ? मममम् " म: = सूर्यः → मो मन्त्रे मन्दिरे माने सूर्ये - [९४] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, म: = मण्डलम् → मण्डलो ? (लं) मानी विष: सूर्यो मकारक: - [४३] इत्येकाक्षरीमातृकाकोशोऽज्ञातविरचितः, मा = प्रभा » मा प्रभा + [४०७७] इति वाङ्मयार्णव: श्रीरामावतारशर्मप्रणीत:, मानां म इति ममः, मम इव मा यस्य स ममम: = भास्वन्मण्डलभा: अतीवतेजस्वित्वादन्तरेण भामण्डलमाननमीक्षितुमशक्यत्वाच्च,प्रभाधिक्यान्मण्डलशब्दस्योपन्यासः, तम् ।
पुनः कीदृशम् ? अमममम् + अम: = रोग: → अम: पुंसि रोगे [भा.१-पृ.१४७] इति शब्दार्थचिन्तामणि: सुखानन्दनाथरचितः, म: = हुतभुक् अग्निरित्यर्थ: → म ? (मो) भवेदिह मेधायां निवारणे साक्षिसत्यवादे च हुतभुक् - [३९] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातगुम्फिता, म: = अम्बु नीरमित्यर्थः → म: शिवामाम्बु- [१३] इति पूर्वोक्तनत्वादि-एकाक्षरीनाममालावचनाद्, अम एव म इति अममस्तत्र-तदुपशमने म इव य: स अममम: = रोगवह्निवारि दुःखार्तिदाहकत्वाद् रोगज्वलनयोरुपमोपमेयत्वमुक्तम्, तदतिशयविशेषात्, तम्।
पुन: कीदृशम् ? ममम् = म: = इन्द्रः → म: शम्भौ धातरीन्द्रे च . [६१] इत्येकाक्षरकाण्ड: कविराघवविरचित:, मा = अर्चा → माबन्त: स्त्री रमार्चयो: “ [९५] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, मानां मा यस्य स मम: = पुरन्दरपूजनीय: पुण्यातिप्रकर्षात्, पूजातिशयवत्त्वाच्च तम् ।
नन्वाखण्डलार्चनीयत्वेन स्यादन्तःकरणे मानं यदहं मघवमहनीय इत्यतोऽर्हन्नमान: समानो वेत्याशङ्कामपाकुर्वन्नाह ।
पुन: कीदृशम् ? अमम् ॐ मः = मान: → म ? (म:) स्त्रियां मञ्जुकायां [म:] श्रीशान्तिनाथजिनस्तुति: १११