SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मजुला य: सद्धर्मप्रदायकः स परमशान्तिदाता मिथ्यात्वस्याशान्तिजननहेतुत्वादित्यनेन सम्बन्धन प्राप्तस्य श्रीशान्तिनाथजिनस्य स्तुतिर्जल्प्यते । मममिति । अहं मम शान्तीशम् = श्रीशान्तिनाथतीर्थकरम् पूजयामि = अर्चयामि → पूजण् पूजायाम् - [१५८६] इति हैमधातुपाठः, इति क्रियाकारकसण्टङ्कः। अत्र ‘पूजयामि' इति क्रियापदम्, क: कर्ता ? 'अहम्', कं कर्मतापन्नम् ? 'शान्तीशम्', कस्य 'मम', अन्यानि श्रीशान्तीशस्य विशेषणानि । ___कीदृशं श्रीशान्तीशम् ? ममम् - मम् = शुभम् → क्लीबे मं मूलके शुभे [१०७] इत्येकाक्षरीनाममाला कालिदासव्यासविरचिता, म: = विधि: भाग्यमित्यर्थः → मो मन्त्रे मन्दिरे माने सूर्ये चन्द्रे शिवे विधौ - [९४] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, मं मो यस्य स मम: = वरविधि: श्रेष्ठभाग्यवानित्यर्थ: विघ्नवारविरहितत्वात्, तम् । पुन: कीदृशम् ? अमममम् + म: = मद: → म ? (म:) स्त्रियां मञ्जुकायां च लक्ष्म्यां माने च मातरि मदिरामदयो: - [९२/९३] इत्येकाक्षरशब्दमालाऽमात्यमाधवनिर्मिता, मम् = मौलि: → मं मौलौ - [९५] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, म: = शिर: → म: शिवे विधौ चन्द्रे शिरसि 6 [१५] इत्येकाक्षरनाममालिका श्रीअमरचन्द्रकविकृता, म एव ममिति ममम्, ममं मे यस्य स ममम: न ममम इति अममम: = अमदमौलिमूर्धा निष्कषायत्वात्, तम् । [म:] श्रीशान्तिनाथजिनस्तुतिः १०९ १०९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy