SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ज्योतिषाभमनामयम् आयुरारोग्यदं श्रेष्ठम् - [३९] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, भम् = मन्त्रम् → नपुंसके भं नक्षत्रे गगने मन्त्रचक्रयोः - [८९] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रणीता, भं भं यस्य स भभः = श्रेष्ठमन्त्रस्वरूप: मिथ्यात्वविषनिवारकत्वात्, विषप्रतिकारे मन्त्रस्योपायस्वरूपत्वात्, तदुक्तम् → विसम्मि मंतो त्ति [४७] इति योगशतके, तम् । पुन: कीदृशम् ? भभभम् - भ: = चन्द्रः → पुमान भकार: श्रीकण्ठे चन्द्रे - [९१] इत्येकाक्षरशब्दमालाऽमात्यमाधवगुम्फिता, भः = शोभा → भ: शोभा + [१०४] इति पूर्वोक्तकालिदासव्यासवचनाद्, भम् = वक्त्रम् मुखमित्यर्थः → भा: किरणे द्युतौ क्लीबे तु गगने राशौ तारायां पुण्ड्रवक्त्रयोः * [५२/५३] इति नानार्थरत्नमालेरुगपदण्डाधिनाथनिर्मिता:, भस्य भ इति भभस्तद्वद् भं यस्य स भभभः = चन्द्रशोभावद्वक्त्रवान् आह्लादोत्पादकत्वात्, तम् । पुन: कीदृशम् ? भभभम् भः = भूपति: → भ: शुक्लगिरिभूपतौ . [१३] इति पूर्वोक्तनत्वादि-एकाक्षरीनाममालावचनाद्, भ: = मयूर: भः = मेघ: → भ: शोभा भ्रमरे भावे शुक्रेऽशौ जलदे पुमान् आकाशे च मयूरे च . [१०४] इति पूर्वोक्तकालिदासव्यासवचनाद्, भा एव भा इति भभास्तत्र भ इव य: स भभभ: = महीपतिमयूरमेघ: प्रमोदप्रदायकत्वात्, तम् । ___ पुन: कीदृशम् ? भम् - भम् = आरोग्यप्रदम् → भकारं भार्गवं ज्ञेयं ज्योतिषाभमनामयम् आयुरारोग्यदं श्रेष्ठम् + [३९] इति पूर्वोक्तैकाक्षरनाममालावचनाद्, पूर्वं स्वस्य रोगरहितत्वमुक्तमत्र पररोगनिवारकत्वमपि, तद् । पुनः कीदृशम् ? भम् = श्रेष्ठम् पूर्वोक्तैकाक्षरनाममालावचनात्, पुरुषोत्तमत्वात्, तद् । प्रणम्य प्रभुपावेशं वाराणसीविभूषणम् । वाराणस्यां भकारेण भक्त्येयं भणिता स्तुतिः ।।१।। अष्टम्यां चैत्रमासस्य पाण्डुरायां तिथौ मुदा । अधर्मनाशसद्धर्मदश्रीधर्मजिनेशितुः ।।२।। युग्मम् ।। इति श्रीधर्मनाथजिनस्तुति: ।। १७ ।। ★★★ [भ:] श्रीधर्मनाथजिनस्तुति: १०७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy