________________
मञ्जुला
यो विमल: (विगतपापमल:) स अनन्तज्ञानवान इत्यनेन सम्बन्धेनायातस्य श्रीअनन्तनाथजिनस्य स्तुति: प्रकाश्यते ।
बबमिति ।
हे बब ! ब: = मूर्खः ब: = बाल: → ब: कुम्भे वरुणे बिन्दौ विकल्पे भे गुरौ मदे विभूतिकारे कलहे पक्षिगर्भे च पर्वणि मूर्खे बाले — [१०१/१०२] इत्येकाक्षरीनाममाला कालिदासव्यासकृता, बश्चासौ बश्चेति बब: = मूर्खबाल:, तस्य सम्बोधने हे बब ! = हे मूर्खबाल ! त्वम् अनन्तजिनेश्वरम् = श्रीअनन्तनाथस्वामिनम् अर्च = पूजय इति क्रियाकारकयोजना → अर्च पूजायाम् 6 [१०८] इति हैमधातुपाठः।
अत्र ‘अर्च' इति क्रियापदम्, क: कर्ता ? 'त्वम्' अध्याहृतमिदं पदम्, कं कर्मतापन्नम् ? 'अनन्तजिनेश्वरम्', किं सम्बोधनम् ? 'बब !', अपराणि श्रीअनन्तनाथस्य विशेषणानि । | ____ कीदृशं श्रीअनन्तजिनेश्वरम् ? बबम् - ब: = गुरु: → ब: कुम्भे वरुणे बिन्दौ विकल्पे खे गुरौ - [५०] इति नानार्थरत्नमालेरुगपदण्डाधिनाथनिर्मिता, बानां ब इति बब: = गुरूणामपि गुरु: अनन्तज्ञानवत्त्वाद्विद्वन्मूर्धन्यगणधराणां गुरुत्वाच्च, तम् ।
पुन: कीदृशम् ? बबबबम् ब: = वर: → बो दन्त्यौष्ठ्यस्तथौष्ठ्योऽपि वरुणे वारुणे वरे - [८७] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, ब: = पुरुष: → ब: पुमान् पुरुषे - [८५] इत्येकाक्षरशब्दमालाडमात्यमाधवनिर्मिता, ब: = वृन्दम् → बो दन्त्यौष्ठ्यस्तथौष्ठ्योऽपि वरुणे वारुणे वरे शोषणे पवने [ब:] श्रीअनन्तनाथजिनस्तुतिः ९७