SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ लोहे * [९९] इत्येकाक्षरीनाममाला कालिदासव्यासविरचिता, फ: = शिखी अग्निरित्यर्थः → शिखी रौद्री वामपार्श्वकृतालय: फट्कार: प्रोच्यते सद्भिः फकार: * [४०] इत्येकाक्षरीमातृकाकोशोऽज्ञातप्रणीत:, फमेव फ इति फफ: तत्रतशिथिलीकरणे फ इव य: स फफफः = लोभलोहानल: लोभरहित इत्यर्थः, तम् आर्तरौद्रध्यानरहितत्वात्, लोभस्य तन्मूलबीजत्वात् तदुक्तम् → अट्टरुद्दाणं मूलबीयं निरंभिउं लोभं त्ति [५१४] हितोपदेशे । पुन: कीदृशम् ? फफम् फः = ज्ञानम् फः = नीरधि: समुद्र इत्यर्थः → फोऽपारदर्शने देवे न्याये जाने च नीरधौ - [८४] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, फस्य फ इति फफः = ज्ञानवारिधि: तदानन्त्याद् परमज्ञानित्वाच्च, तम् । अथ परमज्ञानितो लभ्यते ज्ञानं माहेन्द्रादिदेव-चक्रवादिभिरपीत्याशयादाह । पुन: कीदृशम् ? फफफम् - फम् = चक्रवर्ती फम् = माहेन्द्र: देवविशेष: → चक्रवर्तिनि फं क्लीबे - [८५] तथा → फं चार्के माहेन्द्रे - [८६] इत्युभयत्रैकाक्षरनाममालिका विश्वशम्भुप्रणीता, फः = ज्ञानम् → फोऽपारे दर्शने देवे न्याये ज्ञाने - [८४] इति पूर्वोक्तविश्वशम्भुवचनाद्, फञ्च फञ्चेति फफे, स्यात् फफयोः फं यस्मात् स फफफः = चक्रवर्तिमाहेन्द्रज्ञानदायक: सर्वज्ञत्वात्, सुरादीनां संशयनिवृत्तेश्च, तम् । __ पुन: कीदृशम् ? फम् = सर्वरोगविनाशक: → फंकारं भैरवं विद्याद् रक्ताभं विजयप्रदं महाग्रहहरं सर्वज्वररोगविनाशनम् - [३७] इत्येकाक्षरनाममालाऽज्ञातकृता, अतिशयविशेषात्, तद् । पुन: कीदृशम् ? फम् = विजयप्रदम् → फंकारं भैरवं विद्याद् रक्ताभं विजयप्रदम् - [३७] इति पूर्वोक्तनाममालोक्तेः, तद् । चैत्रोज्ज्वलतृतीयायां फकारेण स्तुतिह्यसौ । सद्भक्त्या विहिता वासुपुरे श्रीविमलार्हतः ।।१।। इति श्रीविमलनाथजिनस्तुतिः ।। १५ ।। [फ:] श्रीविमलनाथजिनस्तुतिः ९५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy