________________
नेकार्थतिलक: सचिवमहीपप्रणीत:, ज्ञानादिना वृद्धत्वात् ।
पुन: कीदृश: ? पप: - प: = अमृतम् → पः शब्दः स्यादमृते - [३५] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातरचिता, पम् = रक्तम् → पकारमग्निबीजं स्याद् रक्तम् - [३६] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, प इव पं यस्य स पप: = सुधाशोणित: तीर्थकरातिशयात् ।
पुन: कीदृश: ? पप: - प: = पूषा सूर्य इत्यर्थः → प: पापी पूषा - [६९] इत्येकाक्षरशब्दमाला सौभरिविरचिता, प: = प्रकाश: → प: पुमान् पवने शैले प्रकाशे - [९५] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, प इव पो यस्य स पप: = पूषप्रकाश: अतिशयतेजस्वित्वादन्तरेण भामण्डलमर्हतामाननमीक्षितुमशक्यत्वाच्च तदुक्तमस्माभि: सौम्यवदनाख्यकाव्यस्य स्वोपज़पुण्यवल्लभाभिधानायां वृत्तौ → सूर्यवद् दीप्तिमानत एव जिनमुखदर्शनाय अनुजिनं भामण्डलं विरच्यते सुमनोभि: - [श्लो.-४, पृ.-१९] ।
पुनः कीदृश: ? पप: प: = पार्थिव: → पार्थिव: पद्मेशो नान्तिम: फादि: पकारोऽपि प्रकीर्तित: - [३९] इत्येकाक्षरीमातृकाकोशोऽज्ञातनिर्मित:, प: = अर्चा → पकारस्तु भवेल्लग्ने पत्रे शास्त्रार्चयोरपि [७९] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रणीता, पानां पो यस्य स पप: = पार्थिवैरर्चनीय: परमपूज्यत्वात् ।
पुन: कीदृश: ? प: ॐ पाता → प: स्यात् पाने च पातरि [२४] इत्येकाक्षरकोश: पुरुषोत्तमदेवप्रणीत:, कर्मशत्रोर्देहिनां रक्षकत्वात् ।
श्रीप्रथमेशकैवल्यज्ञानकल्याणकस्थले । अल्हाबादे पुरे भक्त्या संस्तुत्य प्रथमेश्वरम् ।।१।। निर्मिता चैत्रमासस्य शुक्लायां प्रतिपत्तिथौ । पूज्यश्रीवासुपूज्यस्य पकारेण स्तुतिर्मया ।।२।। युग्मम् ।।
इति श्रीवासुपूज्यस्वामिस्तुतिः ।। १४ ।।
[प:] श्रीवासुपूज्यस्वामिस्तुति:
८९