________________
[७९] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, न: = बुद्धिः , नो बुद्धौ [२७] इत्येकाक्षरनाममाला सुधाकलशमुनिप्रणीता, नं नो यस्य स नन: = अनन्तमति: प्रकृष्टप्रज्ञ इत्यर्थः, तम् ।
पुन: कीदृशम् ? नननम् = ना: = कवयः → नो रक्षाकविवारिदे - [१२] इति नत्वादि-एकाक्षरीनाममालाऽजातप्रणीता, न: = वृन्दम् → नकार: सुगते वृन्दे * [२०] इत्येकाक्षरकोश: पण्डितमनोहररचितः, न: = स्तुति: → स्तुतौ नस्तु प्रकीर्तित: 6 [२२] इत्येकाक्षरकोश: पुरुषोत्तमदेवनिर्मित:, नानां न इति नन: = कविकलाप: ननस्य नो यस्य स ननन: = कविकलापकीर्तित: कविकोविदत्वात्, तम् ।
पुन: कीदृशम् ? नम् • न: = पूज्य: → नकारो जिनपूज्ययो: * [१३] इति विश्वलोचनकोश: श्रीधरसेनाचार्यविरचित:, पूजातिशयसमेतत्वात्, तम्, सर्वैरपि पूज्यत्वादत्र न व्यक्तिविशेषस्य कस्याप्युल्लेखः ।
फाल्गुनस्य त्रयोदश्यां श्यामायां रचिता स्तुतिः । बाबुगजे नकारेण श्रीश्रेयांसजिनेशितुः ।।१।।
इति श्रीश्रेयांसनाथजिनस्तुतिः ।। १३ ।।
*
*
*
[नः] श्रीश्रेयांसनाथस्तुतिः
८३