________________
[७९] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, नम् = सुखम् → नं नेत्रमजनं श्रोत्रं करणं कारणं सुखम् - [६८] इत्येकाक्षरनाममाला सौभरिनिर्मिता, नं नं यस्य स नन: = अनन्तानन्द: सुखसागरस्नातृत्वादशातवेदनीयोदयरहितत्वाच्च,
तम् ।
पुन: कीदृशम् ? ननम् नम् = सूक्ष्मम् नम् = ज्ञानम् → नं ज्ञानसंज्ञयो: वर्मसूक्ष्म- 6 [४५] इति नानार्थरत्नमालेरुगपदण्डाधिनाथनिर्मिता, नं नं यस्य स नन: = सूक्ष्मज्ञानवान् केवलज्ञानित्वात् केवलज्ञानस्यैव सर्वद्रव्यपरिणामविज्ञप्तिकारणत्वात्, तदुक्तम् → अह सव्वदव्वपरिणामभावविन्नत्तिकारणमणंतं सासयमप्पडिवाई एगविहं केवलन्नाणं त्ति [७७] आवश्यकनिर्युक्त्तौ [८२३] विशेषावश्यकभाष्ये [४३] नन्दीसूत्रे च, तम् ।
पुन: कीदृशम् ? नम् - न: = जिन: → नकारो जिन- - [१३] इति विश्वलोचनकोश: श्रीधरसेनाचार्य विरचितः, वीतरागत्वात्, तम् ।
पुन: कीदृशम् ? नननननम् + ना: = नरा: मनुष्या इत्यर्थः → नो नरे च - [७६] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, न: = बुद्धिः → नो बुद्धौ ‘ [२७] इत्येकाक्षरनाममाला सुधाकलशमुनिप्रणीता, नम् = नेत्रम् → नं नेत्रम् - [६८] इत्येकाक्षरनाममाला सौभरिकृता, नम् = ज्ञानम् → नं ज्ञानवाद्ययो: 6 [५२] इत्येकाक्षरकाण्ड: कविराघवनिर्दिष्टः, नम् = अञ्जनम् → स्यान्नेत्रमञ्जनञ्च नम् - [१४] इति विश्वलोचनकोश: श्रीधरसेनाचार्यकथितः, नानां न इति नन: = मनुष्याणां बुद्धिः, नन एव नमिति नननम् = मनुष्यमनीषालोचनम्, नमेव नमिति ननम् = ज्ञानाञ्जनम् ननने ननं यस्मात् स ननननन: = मनुष्यमनीषालोचने ज्ञानाञ्जनकारक: अज्ञानतमोवारकत्वात् सज्ज्ञानप्ररूपकत्वाच्च, तम् ।
पुन: कीदृशम् ? ननम् + न: = अपर: अनन्य इत्यर्थ: → न: शब्द: प्रतिषेधे स्थिरनिश्चयशुष्कवादशून्येषु स्यादपर(रे) परिश्लिष्टे - [३४] इत्यजिरादिएकाक्षरीनाममालाऽज्ञातकृता, नम् = आनन्द: → सानन्दे नं च नन्दने [७९] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, नो नं यस्मात् स नन: = अनन्यानन्ददायक: आत्मानन्दानुभूतिकारयितृत्वात्, तम् ।
पुन: कीदृशम् ? ननम् ॐ नम् = अनन्तम् → नं ब्रह्मणि तथानन्ते - [न:] श्रीश्रेयांसनाथस्तुति: ८१