SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मञ्जुला यः स्वभावेन शीतलः स श्रेयांसः (सर्वेषां हितकारी) सक्रोधस्य हिताहितादर्शनादित्यस्मात् सम्बन्धादायातस्य श्री श्रेयांसनाथस्य स्तुतिर्गद्यते । सर्वस्यैव हितकर इति वा श्रेयांसः ← [२७] इति व्युत्पत्तिरत्नाकरः श्रीदेवसागरगणिकृतः । ननं ननमिति । हे न: ! = मनुष्य ! ‘नृ’शब्दस्य सम्बोधने प्रयोग:, त्वं श्रेयसे = धर्मार्थम् श्रेयांसम् = श्रीश्रेयांसनाथजिनेश्वरम् न श्रय = न भज इति न श्रयैवेत्यर्थः, इति क्रियाकारकसम्बन्धः → श्रिग् सेवायाम् ← [ ८८३] इति है मधातुपाठ: । कीदृश हे न: ! ? न नः = अनाथ: नोऽनर्थेऽपि (अनाथेऽपि) प्रदर्श्यते ← [७६] इत्येकाक्षरनाममालिका विश्वशम्भुविरचिता, तस्य सम्बोधने । अत्र 'श्रय' इति क्रियापदम्, कः कर्ता ? ' त्वम्' अध्याहृतं पदम्, कं कर्मतापन्नम् ? ‘श्रेयांसम्', कस्मै ? 'श्रेयसे', किं सम्बोधनम् ? 'न:', 'न' इति तस्य विशेषणम्, अन्यानि सर्वाणि श्री श्रेयांसनाथस्य विशेषणानि, 'न' निषेधार्थे, द्वितीयो 'न' तस्यापि निषेधार्थे । कीदृशं श्रीश्रेयांसनाथम् ? ननम् नः = मनुष्यः → नकारः पुंसि हेरम्बे ना भवेत् पुरुषे तथा ← [ ७४] इत्येकाक्षरशब्दमालाऽमात्यमाधवप्रणीता, नः = बन्धुः नः पुनर्बन्ध (बन्धु) बुद्धयोः ← [१२] इत्येकाक्षरनाममालिकाऽमरचन्द्रकविविरचिता, नानां न इति ननः = मनुष्याणां बन्धुः सर्वेषां स्वजनत्वात् जगज्जीवबान्धवत्वाच्च, तम् । पुनः कीदृशम् ? ननम् नम् = अनन्तम् →नं ब्रह्मणि तथानन्ते ← [न] श्रीश्रेयांसनाथस्तुतिः ७९
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy