________________
पण्डितमनोहरनिर्मित:, धश्चासौ धमिति धधम् = शिवशर्म तस्य धं य: स धधधम् = शिवसुखसागर: महानन्दमहानन्दमयत्वात्, तद् ।
पुन: कीदृशम् ? धधधधम् + ध: = धनम् धः = धान्यम् → धने धान्ये च धः स्मृत: [२१] इत्यभिधानादि-एकाक्षरीनाममालाऽज्ञातकृता, धः = भृतम् → भृते भीते ध: 6 [७२] इत्येकाक्षरनाममालिका विश्वशम्भुप्रणीता, धम् = वेश्म → धं क्लीबे धनदे धीरे ध्याने स्याद् धन-वेश्मयो: ? (नो:) 6 [८६] इत्येकाक्षरीनाममाला कालिदासव्यासनिर्मिता, धश्च धश्चेति धधौ, ताभ्यां ध: = भृतम् धम् = वेश्म यस्य स धधधधः = धनधान्यभृतभवन: जिनराजजन्मप्रभावाद् वेश्मनि धनधान्यादीनामभिवृद्धिरेव तत्पुण्यप्रभावातिशयात्, तम् ।
पुन: कीदृशम् ? धधम् + धः = धीर: → धः पुंसि धार्मिके धीरे . [८६] इत्येकाक्षरीनाममाला कालिदासव्यासविरचिता, धा = धर्मरति: → धा च धर्मरतिर्मता — [१४] इत्येकाक्षरकोषोऽज्ञातविद्वत्कृतः, धानां धा यस्मात् स धध: = धीरेभ्यो धर्मरतिदायक: वचनप्रभावविशेषात्, तम् ।
पुन: कीदृशम् ? धम् + धम् = बुध: विबुध इत्यर्थ: → धं वेश्मनि धने धान्ये बुधे 6 [५०] इत्येकाक्षरकाण्ड: कविराघवविरचितः, सर्वज्ञत्वात्, तद् ।
पुरेजामसीहे ग्रामे दशम्यां शितिफाल्गुने प्रणीतेयं धकारेण स्तुति: श्रीशीतलप्रभोः
। ॥१॥
इति श्रीशीतलनाथजिनस्तुतिः ।। १२ ।।
★★★
[ध:] श्रीशीतलनाथस्तुतिः