________________
वारिद इत्यर्थ: → धः पुंसीन्द्रे ध्वनौ ध्याने श्रीदे धन्वन्तरे घने [४३] इति नानार्थरत्नमालेरुगपदण्डाधिनाथनिर्मिता, धानां ध इति धधः = विद्वद्विवाद: स एव ध इति धधधः = विद्वद्विवादवह्निः तत्र-तदुपशमने ध इव यः स धधधध: = विद्वद्विवादवह्निवारिद: यथा घनाघनागमने वढेरुपशमनं स्यात् तथैव तीर्थेशप्रभावाद् विवादोपशान्ति: सुनृतस्य संप्राप्तेः, तम् ।
पुन: कीदृशम् ? धधम् • धम् = श्वेतम् → धकारं धर्मबीजं स्यात् श्वेतम् - [३४] इत्येकाक्षरनाममालाऽज्ञातविद्वत्कृता, धः = ध्यानम् → ध: पुं शिलीन्धेन्द्रोाने - [५०] इत्येकाक्षरकाण्ड: कविराघवविरचितः, धं धो यस्य स धधः = धवलध्यान: विषयविरक्तमतित्वात् सर्वाश्रवविनिवृत्तत्वादकिञ्चनत्वाच्च, तेषामेव धर्मशुक्लध्यानोपपत्तेस्तदुक्तम् → विसयविरत्तमईणं तम्हा सव्वासवा णियत्ताणं झाणं अकिंचणाणं णिसग्गओ होइ णायव् [६४] इति गुरुतत्त्वविनिश्चये, तम् ।
पुन: कीदृशम् ? धम् - ध: = धरणीश: → धरणीशश्च धकार: 6 [३७] इत्येकाक्षरीमातृकाकोशोऽज्ञातनिर्मित:, भद्दिलपुरनगर्या अधिपतित्वात्, तम् ।
पुनः कीदृशम् ? धधम् धः = धर्म: → धो ना धर्मे - [१९-१] इति मेदिनीकोशो मेदिनीकरप्रणीतः, धः = धनम् → धो विधाता धनम् - [१] इत्येकाक्षरनाममालिका विश्वशम्भुरचिता, ध एव धो यस्य स धधः = धर्मधन: धर्मधनस्य प्रदायकत्वात् सुवर्णादिधनत्यक्तृत्वाच्च, तम् ।
पुन: कीदृशम् ? धधम् - ध: = घन: धराधर इत्यर्थः ध: = ध्वनि: → ध: पुंसीन्द्रे ध्वनौ ध्याने श्रीदे धन्वन्तरे घने + [४३] इति पूर्वोक्तेरुगपदण्डाधिनाथवचनाद्, ध इव धो यस्य स धधः = धराधरध्वनि: तदतीवगम्भीरत्वात्, तम् ।
पुनः कीदृशम् ? धधधम् - धः = शाश्वत: → धो धनार्थो (ख्यो) रुचि: स्थाणुः शाश्वत: - [११३] इति प्रकारान्तरमन्त्राभिधानम्, धम् = सुखम् → धं धनं धूननं दानं धारणं करणं सुखम् - [६६] इत्येकाक्षरनाममाला सौभरिप्रणीता, धम् = सागर: → धं धने च धनेशेऽब्धौ - [१९] इत्येकाक्षरकोश: [ध:] श्रीशीतलनाथस्तुतिः