SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ૮૫ व्रजो वो वाचनाचार्यो, भवितेत्यादिशद् गुरुः। भक्तत्वादविचार्यैव प्रत्यपद्यन्त ते ती ॥१८३॥ अन्वय :- वः वाचनाचार्यः वज्रः भविता इति गुरुः आदिशद् भक्तत्वाद् अविचार्य एव ते तथा प्रत्यपद्यन्त । समास :- (१) वाचनाचार्यः - पूर्ववत् । (२) अविचार्य - न विचार्य इति अविचार्य । (नञ्.त.पु.) प्रातःकृत्यं कायोत्सर्गवाचनाग्रहणादिकम् । कर्तुं ते साधवो वज्रम् , निषद्यायां न्यषादयन् ॥१८४॥ अन्वय :- ते साधवः कायोत्सर्गवाचनाग्रहणादिकम् प्रातःकृत्यं कर्तुं निषद्यायां वजं न्यषादयन् । समास :- (१) कायोत्सर्गवाचनाग्रहणादिकम् - (A) कायः उत्सृज्यतेऽस्मिन् इति कायोत्सर्गः । (उप.त.पु.) (B) वाचनायाः ग्रहणम् इति वाचनाग्रहणम् । (ष.त.पु.) (C) कायोत्सर्गश्च वाचनाग्रहणं च इति कायोत्सर्ग वाचनाग्रहणे । (इ.द्वन्द्व.) (D) कायोत्सर्गवाचनाग्रहणे आदौ यस्मिन् तद् इति कायोत्सर्गवाचनाग्रहणादिकम्, तद् कायोत्सर्ग वाचनाग्रहणादिकम् । (व्यधि.ब.वी.) गुर्वाज्ञाऽस्तीति वज्रोऽपि, निषद्यार्यामुपाविशत् । आचार्यस्ये विनयम्, तस्याकार्षुच साधवः ॥१८५॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy