SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उ७ तर्दाकाऽर्यशमितः, श्रुतज्ञाने स्फुरत्यपि । ज्ञात्वा मतिबलेनापि, जगाद स्वानुपासकान् ॥७६॥ अन्वय :- तद् आकर्ण्य आर्यशमितः श्रुतज्ञाने स्फुरति अपि मति __बलेन अपि ज्ञात्वा स्वान् उपासकान् जगाद । समास :- (१) श्रुतज्ञाने-श्रुतं च तद् ज्ञानं च इति श्रुतज्ञानम्, तस्मिन् श्रुतज्ञाने । (वि. पू. क.) (२) मतिबलेन - मतेः बलम् इति मतिबलम्, तेन मतिबलेन । (ष. त. पु.) नास्य काऽपि तपःशक्तिस्तापसस्य तपस्विनः । केनाप्यसौं प्रयोगेणं, प्रतारयति वोऽखिलान् ॥७७॥ अन्वय :- तपस्विनः अस्य तापसस्य काऽपि तपःशक्तिः न असौ ___केनापि प्रयोगेण वः अखिलान् प्रतारयति । समास :- (१) तपःशक्तिः - तपसः शक्तिः इति तपःशक्तिः । __ (ष.त.पु.) (२) तपस्विनः - तपः अस्ति यस्य तपस्वी, तस्य तपस्विनः । (तद्धित) अस्तपोमाया. ७।२।४७ विन् प्रत्ययः । यथा हि अकालपुष्पादि, दर्शितं कौतुकावहम् । तथैतदपि विज्ञानम्, न तपःशक्तिरीदृशी ॥७॥ अन्वय :- यथा हि कौतुकावहम् अकालपुष्पादि दर्शितं तथा एतद् अपि विज्ञानम् ईदृशी तपःशक्तिः न।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy