SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ૨૨ समास :- (१) सुनन्दासदनात् - सुनन्दायाः सदनम् इति सुनन्दासदनम्, तस्मात् सुनन्दासदनात् । (ष.त.पु.) (२) आत्तबालकौ - आत्तः बालकः याभ्यां तौ इति आत्तबालकौ । (समा. ब. वी.) (३) गुर्वाज्ञापालकौ - (A) गुरोः आज्ञा इति गुर्वाज्ञा । (ष.त.पु.) (B) गुर्वाज्ञां पालयतः इति गुर्वाज्ञापालको । (उप.त.पु.) णकतृचौ ५।१।४८ णक प्रत्ययः । . (४) गुरुसन्निधौ - गुरोः सन्निधिः इति गुरुसन्निधिः, तस्मिन् गुरुसन्निधौ । (ष. त. पु.) महासारस्य भारेण', पुत्ररत्नस्य तस्य॑ तु। नमद्बाहुं धनगिरिम् , दृष्ट्वा गुरुरंभाषत" ॥४७॥ अन्वय :- महासारस्य तस्य पुत्ररत्नस्य भारेण तु नमद्बाहुं धनगिरि दृष्ट्वा गुरुः अभाषत । समास :- (१) महासारस्य - महान् सारः यस्य सः इति महासारः, तस्य महासारस्य । (समा.ब.वी.) (२) पुत्ररत्नस्य - पुत्रः एव रत्नम् इति पुत्ररत्नम्, तस्य पुत्ररत्नस्य । (अव.पू.क.) (३) नमदाहुम् - नमन् बाहुः यस्य सः इति नमद्बाहुः, तं नमद्बाहुम् । (समा. ब. वी.) आयासित इवासि त्वम्', भिक्षाभारेण तं मम । समर्पय महाभाग!', विश्राम्यतु भुजैस्तव ॥४८॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy