SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ... २० इयन्तं कालमात्मेव, बालकः पालितो मया। नटिताऽहं त्वनेनोंच्चै,रोदित्येष दिवानिशम् ॥४०॥ अन्वय :- मया इयन्तं कालं बालकः आत्मा इव पालितः अनेन तु अहं नटिता दिवानिशम् एषः उच्चैः रोदिति । समास :- (१) दिवानिशम् – पूर्ववत् । यद्यप्यसि प्रव्रजितस्ताऽप्येनं स्वमात्मजम् । गृहाणं मामिव त्याक्षीहे स्मैनमपि सम्प्रति ॥४१॥ अन्वय :- यद्यपि प्रव्रजितः असि तथापि स्वम् एनम् आत्मजं सम्प्रति गृहाण माम् इव एनम् अपि मा त्याक्षीः स्म । स्वम् - निजम् "स्वं निजे धने" ॥१/१४।। इत्यनेकार्थः । समास :- (१) आत्मजम् - आत्मजः पूर्ववत्, तम् आत्मजम्ः । स्मित्वा धनगिरिरपि, प्रोवाचे वदतांवरः। एवं करिष्ये कल्याणि! पश्चात्तापं तु यास्यसि ॥४२॥ अन्वय :- वदतांवरः धनगिरिः अपि स्मित्वा प्रोवाच कल्याणि ! एवं करिष्ये पश्चात्तापं तु यास्यसि । समास :- (१) वदतांवरः - वदतां वरः इति वदतांवरः । __ (अलुप् ष. त. पु.) मा कृथाः सर्वथैदृक्षम् , कुरुषे वा कुरुष्व तत् । समक्षं साक्षिणां भद्रे! 'पुन.नं न" लप्स्यसे ॥४३॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy