SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ૧૭૫ गीतानुचरैणकदम्बकम्, अनेकधातुमद्भूमिधृतसन्ध्याभ्रविभ्रमम्, भ्राम्यदुन्मत्तचमरीभम्भाभाङ्कारगह्वरम्, नमेरुभूर्जतगरकिम्पाकाकुलमेखलम्, तं हिमाद्रिम् अद्राक्षीत् । नमेरु:- सुरपुन्नागतरुः । भूर्जः-भोजपत्रवृक्षः । तगरः- तन्नामपादपः, 'मींढक' इतिभाषायाम् । किम्पाकः- विषमयवृक्षः। समास :- (१) गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणम् – (A) गङ्गा च सिन्धुश्च एतयोः समाहारः गङ्गासिन्धु । (समा.द्व.) (B) गङ्गासिन्धुनः जलम् इति गङ्गासिन्धुजलम् । (ष.त.पु.) (C) गङ्गासिन्धुजले क्रियमाणा इति गङ्गासिन्धु जलक्रियमाणा । (स.त.पु.) (D) गङ्गासिन्धुजलक्रियमाणा क्रीडा इति गङ्गा सिन्धुजलक्रीडा । (म.प.लो.क.) (E) गङ्गासिन्धुजलक्रीडायां प्रसक्ताः इति गङ्गा सिन्धुजलक्रीडाप्रसक्ताः । (स.त.पु.) (F) सुराणां वारणाः इति सुरवारणाः । (ष.त.पु.) (G) गङ्गासिन्धुजलक्रीडाप्रसक्ताः सुरवारणाः यस्मिन् सः इति गङ्गासिन्धुजलक्रीडाप्रसक्तसुरवारणः, तं गङ्गासिन्धुजलक्रीडाप्रसक्त सुरवारणम् । (समा.ब.वी.) (२) दशमामृतकुण्डाभपद्महदमनोरमम् - (A) अमृतस्य कुण्डम् इति अमृतकुण्डम् । (ष.त.पु) (B) दशानां पूरणम् इति दशमम् । (तद्धित)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy