SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ૧૩૯ विवाहानन्तरं वजं !, हस्तमोचनपर्वणि । द्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्य भवेत्वदः ॥२९६॥ अन्वय :- वज्र ! विवाहानन्तरं हस्तमोचनपर्वणि असङ्ख्याताः द्रव्यकोटी: तुभ्यं दास्ये अदः भवतु । समास :- (१) विवाहानन्तरम् - (A) नास्ति अन्तरं यस्मिन् तद् इति अनन्तरम् । (नञ्.ब.वी.) (B) विवाहाद् अनन्तरम् इति विवाहानन्तरम् । (पं.त.पु.) (२) हस्तमोचनपर्वणि - (A) हस्तस्य मोचनम् इति हस्तमोचनम् । (ष.त.पु.) (B) हस्तमोचनस्य पर्व इति हस्तमोचनपर्व, तस्मिन् हस्तमोचनपर्वणि । (ष.त.पु.) (३) द्रव्यकोटी: - द्रव्याणां कोट्यः इति द्रव्यकोट्यः, ताः द्रव्यकोटीः । (ष.त.पु.) वर्जस्तमज्ञं विज्ञार्य, स्मित्वोचें करुणापरः । पर्याप्तं द्रव्यकोटीभिः, पर्याप्तं कन्ययों च ते ॥२९७॥ अन्वय :- करुणापरः वज्रः तम् अज्ञं विज्ञाय स्मित्वा ऊचे ते द्रव्यकोटीभिः पर्याप्तं कन्यया च पर्याप्तम् । समास :- (१) अज्ञम् - न जानाति इति अज्ञः, तम् अज्ञम् । (उप.त.पु.) (२) करुणापरः - करुणायां परः इति करुणापरः । (स.त.पु.) 10
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy