SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ૧૨૩ अन्वय :- क्षीरास्रवलब्धिमतः श्रीवज्रस्वामिनः तया धर्मदेशनया राजा हृतचित्तः अभवत्तराम् । समास :- (१) क्षीरास्रवलब्धिमतः (A) क्षीरस्य आस्रवः यस्यां सा इति क्षीरास्रवा । (समा.ब.वी.) (B) क्षीरास्त्रवा चासौ लब्धिश्च इति क्षीरास्रवलब्धिः । (वि.पू.क.) (C) क्षीरास्रवलब्धिः अस्ति यस्य इति क्षीरास्रव लब्धिमान्, तस्य क्षीरास्रवलब्धिमतः । (तद्धित) (२) श्रीवज्रस्वामिनः - पूर्ववत् । (३) धर्मदेशनया- धर्मदेशना पूर्ववत्, तया धर्मदेशनया। (४) हृतचित्तः - हृतं चित्तं यस्य सः इति हृतचित्तः । (समा.ब.वी.) देशनान्ते मुनि नत्वा, राजा स्वसदनं ययौं । गत्वां च मध्येशुद्धान्तम् , राज्ञीनामिय॑चीकथत् ॥२६५॥ अन्वय :- देशनान्ते मुनि नत्वा राजा स्वसदनं ययौ मध्येशुद्धान्तं च गत्वा राजीनाम् इति अचीकथत् । शुद्धान्तः - अन्तःपुरम् । "शुद्धान्तः स्यादन्तःपुरम्, इत्यभिधाने । (७२७) समास :- (१) देशनान्ते - देशनायाः अन्तः इति देशनान्तः, तस्मिन् देशनान्ते । (ष.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy