________________
૧૧૩ (२) गुणगणश्रेष्ठः – (A) गुणानां गणाः इति गुणगणाः ।
(ष.त.पु.)
(B) गुणगणैः श्रेष्ठः इति गुणगणश्रेष्ठः । (तृ.त.पु.) का सुरूपों तस्याभूदैभिधानेनं रुक्मिणी । रुक्मिणीव पुनरपि, रूपान्तरमुपेयुषी ॥२४३॥ अन्वय :- तस्य पुनः अपि रूपान्तरम् उपेयुषी रुक्मिणी इव अभि
धानेन रुक्मिणी सुरूपा कन्या अभूद् । समास :- (१) सुरूपा-शोभनं रूपं यस्याः सा इति सुरूपा ।
(अव्य.ब.वी.) (२) रूपान्तरम् - अन्यद् रूपम् इति रूपान्तरम्, तद्
रूपान्तरम् । (मयूर.कर्म) तस्यं च श्रेष्ठिनों यानशालायाममलाशयाः । व्रतिन्यों निवसन्तिं स्म , श्रीवज्रस्य महामुनेः ॥२४४॥ अन्वय :- तस्य च श्रेष्ठिनः यानशालायां श्रीवज्रस्य महामुनेः
अमलाशयाः वतिन्यः निवसन्ति स्म । समास :- (१) यानशालायाम् - यानाय शाला इति यानशाला, तस्यां
यानशालायाम्। (च.त.पु.) (२) अमलाशयाः - (A) अमलः - पूर्ववत् । (B) अमलः आशयः यासां ताः इति अमलाशयाः ।
(समाब.वी.) (३) श्रीवज्रस्य - (A) श्रिया युक्तः इति श्रीयुक्तः ।
(तृ.त.पु.)